SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ षष्ठं परिशिष्टम् श्रीजयसिंहसूरिविरचिता वस्तुपालतेजःपालप्रशस्तिः। श्रेयः श्रीमुनिसुव्रतः स तनुतां यो मन्दरागस्तले, तन्वानः कमठाधिनाथममृतोद्धारकैधौरेयकः । निर्मथ्यैनमधर्मकर्मलहरीपूरैरपारं भवाकूमारं पुरुषोत्तमाय न तमां दत्ते स्म कस्मै श्रियम् ? ॥१॥ यस्मै रश्मिभरो गभीरिमगुणकान्तेन कल्लोलिनी कान्तेनाञ्जनपुञ्जमञ्जिमजयी शङ्के स्वकीयोऽर्पितः। यस्येव क्रमसेवनाय च मुदा मुक्तोऽङ्गभूः कच्छपो, लेभे लाञ्छनतां स यच्छतु सतां श्रीसुव्रतो निर्वृतिम् ॥ २॥ आनन्दाय सुदर्शनाऽस्तु जगतां यस्या मुखेनाग्रतो, नम्राया मुनिसुव्रतक्रमनखादर्शप्रतिच्छन्दिना। आत्मद्वादशतां वहन्नहरहर्देवो हिमांशुमहाकल्पानल्पपतङ्गपाटवतिरस्कारे चकारोद्यमम् ॥३॥ रक्षादक्षो दिवि दिविषदां कोऽपि सन्ध्यासमाधि, ध्यातुर्धातुश्वुलुकजलतः शौर्यराशिः पुराऽऽसीत् । प्रेसत्खड्गप्रतिमितितया सम्मुखीनो बभूव, भूसंरम्भत्रसदसुहृदो यस्य युद्धे य एव ॥ ४ ॥ 'वंशो विश्वत्रितयविदितः पर्वणां वेश्म तस्माचौलुक्याख्यः समजनि समुन्मीलदौन्नत्यलीलः । तच्चूलाग्रस्मितसितयशश्चेलतानातिरेकादेकच्छत्रामतनुत महीं मूलराजो महीन्दुः ॥५॥ कृत्वाऽधः कच्छपं सिन्धुराजप्रक्षोभशोभितः । अमन्दरोचितभुजोऽप्यभवद् यः श्रियः प्रियः ॥६॥ कीर्तिस्तोमसुधाभृतानि वसुधाखण्डानि रेजुः सुधा कुण्डानीव नवत्रिविष्टपसदां स्वाद्यानि यस्मिन् विभौ । रक्षानागचतुष्किका इव सदा सेवासमायातषट् त्रिंशद्राजकुलीयदक्षिणभुजव्याजेन येषां बभुः तस्मादकश्मलमिलन्निजकीर्तिभूतिशुभ्रीकृतां निजमहोदहनाक्षिदीप्ताम् । मूर्ति हरस्य धरणी रिपुराजमुण्डैश्चामुण्डराज इति राजयति स्म राजा १ वंशे गा० ॥२ यस्मै गा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002919
Book TitleVastupal Prashasti Sangraha
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1963
Total Pages154
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy