SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ मलधारिश्रीनरचन्द्रसूरिविरचिता [तृतीयं शीतांशुः सहपांशुखेलनसुहृत् सब्रह्मचारी हरः, प्रालेयाद्रितटी च कौतुकनटी यत्कीर्तिवामभुवः ॥ ७ ॥ प्रतापस्याद्वैतं रिपुनृपतिलक्ष्म्याः क्षणिकता, विभुं नित्यां सष्णां (?) गिरिशगिरिगौरस्य यशसः । क्रुधोऽनेकान्तत्वं महिम निजबुद्धेश्च दधता, वितेने येनाऽऽत्मा किल सकलसद्दर्शनमयः ॥८॥ प्रेयस्यपि न्यायविदाऽप्यनेन, दोषं विनाऽहं निहिताऽस्मि दूरे! इतीव दोषाद् गुणरत्नकोशं, यस्यारिभिहियते स्म कीर्तिः प्रतापतपनो यस्य, प्रतपन्नवनीतले । विपक्षवाहिनीखगधारानीराण्यशोषयत् ॥१०॥ येनारिनारीनेत्राम्भःसम्भारोद्गारसंभृतम् । विश्वसौरभ्यकृच्चक्रे, यशःकुसुमपादपम् ॥११॥ भ्रमन्ती भृशमन्यायतपनोत्तापिताऽधुना । न्यायलक्ष्मीर्विशश्राम, यद्धजादण्डमण्डपे ॥१२ ॥ स वैकुण्ठः कुण्ठः कलुषधिषणः सोऽपि धिषणः, क्षतारम्भः शम्भुन तिमिरहरः सोऽपि मिहिरः । धराभारोद्धारे वचनरचनायां परपुरस्थितिप्लोषे दोषोदयविदलने चास्य पुरतः ॥ १३ ॥ रणे वितरणे चात्र, शस्त्रैर्वस्त्रैश्च वर्षति । अमित्र-मित्रयोः सद्यो, भिद्यते हृदयावनिः ॥१४॥ इमां समयवैषम्याद् , भ्रश्यन्तीं गूर्जरक्षितिम् । दोर्दण्डेनोद्धरन् वीरः, सैष शेषं व्यशोषयत् ॥१५॥ एतस्मिन् वसुधासुधाजलधरे श्रीवस्तुपाले जग ज्जीवातौ सिचयोच्चयैर्नवनवैर्नक्तन्दिवं वर्षति । आस्तामन्यजनो धनोज्झितशशिज्योत्स्नाच्छवल्गद्गुणो द्भूतैरद्य दिगम्बराद्यपि यशोवासोभिराच्छादितम् विश्वस्मिन्नपि वस्तुपाल ! जगति त्वत्कीर्ति विस्फूर्तिभिः, श्वेतद्वीपति कालिकाकलयति स्वर्मालिकानां मुखम् । यत्तैस्तावककीर्तिसौरभमदान्मन्दारमन्दादरे, ___ वर्गे स्वर्गसदा सदा च्युतनिजव्यापारदुःस्थैः स्थितम् ॥१७॥ भाग्यभूः किमसावस्तु, वस्तुपालः स्तुतेः पदम् । येनार्थ-कामावप्येतो, धर्मकर्मकृतौ कृतौ ॥ १८ ॥ तमःसर्वान्नीने प्र[म]दलहरीनर्तितभुजं, भुजङ्गीभिर्गीते जितसितकरे यस्य यशसि । शिरःक्रोडक्रीडद्धरणिभरभुनोऽपि भजते, भुजङ्गेशः क्लेशव्ययमुदयदानन्दमुदितः ॥१९॥ यद्यात्रा तुरङ्गनिष्ठुरखुरैः क्षोणीतलं ताडितं, कम्पः सम्पदमाससाद हृदये किन्तु प्रतिक्ष्माभृताम् । उद्भूतानि रजांसि मांसलतमान्याकाशमाशिश्रियु स्तेषामेव मुखावनौ पुनरहो ! मालिन्यमुन्मीलितम् ॥ २०॥ काले यत्खनदण्डे रिपुकरटिशिरःस्यन्दसिन्दूरपूरैः, सन्ध्याबन्धं दधाने विरचितमुचितं मौक्तिकैस्तारकत्वम् । १ संसारोगारसम्भृतः प्रतौ ॥ २ पद्यमिदं नरचन्द्रनाम्ना निर्दिष्टं प्राचीनलेखसंग्रह भाग २ मध्ये ४३ संख्य गिरिनारसत्कशिलालेखे सप्तमपद्यतयाऽपि वर्तते ।। ३ पद्यमिदं धर्माभ्युदयमहाकाव्यत्रयोदर्शसर्गप्रान्ते वर्तते ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002919
Book TitleVastupal Prashasti Sangraha
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1963
Total Pages154
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy