SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ तृतीयं परिशिष्टम् मलधारिश्रीनरचन्द्रसूरिसूत्रिता वस्तुपालप्रशस्तिः। स वः श्रेयः शत्रुञ्जयशिखरशीर्षकमुकुटः, प्रदोषान्तध्वान्तव्यतिकरनिकाराम्बरमणिः । भवभ्रान्तिश्रान्तिव्यपनयनदीष्णामृतसरःसनाभिः श्रीनाभिप्रभवजिननाथः प्रथयतु श्रीप्राग्वाटकुलेऽत्र चण्डपसुताच्चण्डप्रसादादभूत् , पुत्रः सोम इति प्रसिद्धमहिमा तस्याश्वराजोऽङ्गजः । तस्माल्लूणिग-मल्लदेवसचिवौ श्रीवस्तुपालस्तथा, तेजःपाल इति श्रुतास्तनुभुवश्चत्वार एतेऽभवन् चेतः किं कलिकाल ! सालसमहो ! किं मोह ! नो हस्यते ?, तृष्णे! कृष्णमुखाऽसि किं ? कथय किं विघ्नौघ ! मोघो भवान् । ब्रूमः किं नु सखे ! न खेलति किमप्यस्माकमुज्जम्भितं, सैन्यं यत् किल वस्तुपालकृतिना धर्मस्य संवर्मितम् दैर्गः स्वर्गगिरिः स कल्पतरुभिभेंजे न चक्षुष्पथे, तस्थौ कामगवी जगाम जलधेरन्तः स चिन्तामणिः । कालेऽस्मिन्नवलोक्य याचकचमू तिष्ठेत कोऽन्यस्ततः, _ स्तुत्यः सोऽस्तु न वस्तुपालसुकृती दानैकवीरः कथम् ? स श्रीजिनाधिपतिधर्मधराधुरीणः, श्लाघ्यास्पदं कथमिवास्तु न वस्तुपालः । श्री-शारदा-सुकृतकीर्तिमयत्रिवेण्याः, पुण्यः परिस्फुरति जङ्गमसङ्गमो यः स्वच्छन्दं हरिशङ्करः स भगवान् यत्कीर्तिविस्फूर्तिभि बिभ्रद् भस्मकृताङ्गरागमिव तद् भूतेशभूतं वपुः । सर्वाङ्गं घटितां गिरीश्वरसुतां दुग्धाब्धिपुत्री जवाद्, व्यावृत्तां च सहस्ततालहसितैर्वैलक्ष्यमध्यापयत् दायादा कुमुदावलिर्विचकिलश्रेणी सहाध्यायिनी, सध्रीची सुरसिन्धुवीचिवितति.........की चन्द्रिका । ॥ ४ ॥ १ पद्यमिदं नरचन्द्रसूरिनाम्ना निर्दिष्टं प्राचीनलेखसंग्रह भाग २ मध्ये ३९ संख्यगिरिनारशिलालेखे प्रथमपद्यतया वर्तते ॥२ पद्यमिदं नरचन्द्रनाम्ना निर्दिष्टं प्राचीनलेखसंग्रह भाग २ मध्ये ४२ संख्यगिरिनारसत्कशिलालेखे पञ्चमपद्यतयाऽपि दृश्यते ॥ ३ क्य यस्य करुणं तिष्ठेत कोऽन्यः स्वतः पुण्यः सोऽस्तु गिरिनारशिलालेखे ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002919
Book TitleVastupal Prashasti Sangraha
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1963
Total Pages154
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy