SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् ] सुकृतकीर्तिकल्लोलिनी । ॥ १४३ ॥ संयोजितेन मणिमण्डितशातकुम्भकुम्भत्विषा शुचिनखेन करद्वयेन । मौलिस्थितेन जिननाथसनाथमध्यप्रासादवद्दिनमुखे क्षणमीक्ष्यते यः मालिन्यं मुमुचे जगत्रयशुचेरर्केन्दुमन्दाकिनी सम्पर्कादपि यत्र दुर्दमतमः सम्बन्धबन्धूकृतम् । भाकाशेन तदप्यमुच्यत चिरं यत्तीर्थयात्रारजः, स्नात्रादृश्यतदात्वनिर्मलमिलकीर्तिद्युतिद्योतिना ॥१४४॥ मा भून्मद्भुवनेऽपि दुस्तरतमःस्तोमस्तथा मास्म भून्नेत्रेऽपि सदां सदाविकसिते सम्मीलनं मर्त्यवत् । प्रत्युद्गासिरजः समुच्छ्रयभयाद् दम्भोलिपाणिर्महीमम्भोभृद्भिरसीषिचत् प्रतिदिनं यत्तीर्थयात्रोद्यमे ॥ १४५॥ यद्दिकुम्भि-कुलाद्रि- कोल-कमठ - व्यालेश्वरौः खेचराः, कष्टादेव दधुस्तलं तदवनेर्विष्णुश्चतुर्भिर्भुजैः । त् खङ्गाङ्कभुजेन वीरधवलो मुद्राङ्गुलीलीलया, तेजः पालकरस्तदेव सबलः ख्यातो बलिभ्योऽप्यसौ ऽधिरोहन्निह रैवताद्रौ, वस्त्रापथस्थानतपोधनानाम् । यदौचित्यधियाऽपि किञ्चित् कालेन नीतं करतां तदेतैः त्रापर्वणि रैवतक्षितिधरे प्राप्तोऽत्र मन्त्रीश्वर स्तेजःपाल इदं निशम्य जनतोऽथाऽऽहूय तांस्तापसान् । द्रम्म सहस्रयुग्ममुचितं दत्त्वोत्तमर्णव्रजात्, तद्रामं परिमोचयन् करममुं सन्त्याजयामासिवान् चैतेन गुणैः शशाङ्कशुचिभिः कृष्टः सुराष्ट्रापतिः, पित्रोः पुण्यकृते जिनेश्वरकरं श्री भीमसिंहोऽमुचत् । तीरक्षक हेतवे तु कृतिना देवादितो दापिता, सेयं पञ्चशती सुराष्ट्रपतये तस्मै पुराऽभ्यर्थनम् बभूव गोत्रैकगुरुर्गरीयानेषामशेषागमपारदृश्वा । नागेन्द्रगच्छे स महेन्द्रसूरिर्महेन्द्र - नागेन्द्रयशा मुनीन्द्रः कर्मसाक्षिभवतापपीडनं, क्रीडितं शमरसौघपल्लवे । क्षालिताखिलमदं स्म दन्तिवद्, यं त्यजन्ति खलु कश्मलालयः पन्था ग्रन्थाटवीनां मुनिरजनि ततः कोऽपि कल्याणवल्याः, कन्दः कन्दर्पदर्पद्रुमवनदहनभ्रान्तिः शान्तिसूरिः । प्रत्यग्रक्षुब्धदुग्धार्णवनवलहरी कल्पजल्पेन यस्मिन्, जल्पाके कोविदेशे मतिमकृत कृती को विदेशे न गन्तुम् ॥ १५२ ॥ आनन्दचन्द्रा - ऽमरचन्द्रसूरी, तत्पट्टलक्ष्मीशुचिभूषणाभौ । अन्तःस्फुरद्रत्नसपत्नभूतगुरुक्रमाम्भोजनखावभूताम् Jain Education International १३ For Private & Personal Use Only ॥ १४६ ॥ ॥ १४७ ॥ ॥ १४८ ॥ युग्मम् ॥ ।। १४९ ।। ॥ १५० ॥ ॥ १५३ ॥ १ पयमिदं उदयप्रभीयवस्तुपालस्तुतौ एकोनविंशपद्यतयाऽपि वर्त्तते ॥ २ त्रेषु सदां सदाविकलितेस्वामील' उदयप्रभीयवस्तुपालस्तुतौ ॥ ३ 'मुच्चय कां० मुद्रिते च ॥ ४ प्रतिपदं य उदयप्रभीयवस्तुपालस्तुतौ ॥ ५ 'रापेश्वराः कां० || ६ खड्गाङ्केन भुजेन मुद्रिते ।। ७ प्राज्ञोऽत्र मुद्रिते ॥ ॥। १५१ ।। www.jainelibrary.org
SR No.002919
Book TitleVastupal Prashasti Sangraha
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1963
Total Pages154
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy