SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ श्रीउदयप्रभाचार्यविरचिता [ प्रथम अस्मद्गोत्रैकमित्रं त्वमसि निशि शशी क्रीडया पीडयेन्नः, शङ्के पङ्केरुहैः श्रीरिति गदितुमिव प्रीतियुक्ता नियुक्ता । तत्तप्त्या यस्य ताम्रः कुपित इव करो दानशोभी यशोभि भृत्यैश्चक्रे तथेन्दं त्रिजगति स यथा लक्ष्यते नेक्षितोऽपि ॥१३२ ॥ जाता कृष्णपदात् प्रिया जलनिधेर्दुष्कर्मभिर्निम्नगा, बढेवं परिभाव्य यत् किल दधौ झम्पां पुरा वै भवे । तन्मन्येऽस्य कराग्रसम्भृतजनिभूत्वा गुंणश्रेयसी, कीर्तिः ख्यातिमवाप्य काऽप्यभिनवा गङ्गेयमुज्जृम्भते ॥ भर्तुर्वेषमयं विधाय कितवः कोऽप्येति मामुन्मना स्तनामुं विजये ! निवारय यतो मे नीलकण्ठः प्रियः जल्पन्तीति सती यदीययशसा शुभ्रीकृते सर्वत स्त्रैलोक्येऽपि पिनाकिना सशपथं प्रत्यायिता पार्वती क्षीराब्धिलुंठति क्षितौ फणिपतिः स्फारस्फुरत्स्फूत्कृतिर्गङ्गा निम्नमुखी करोत्यलिका अन्तः सन्ततमकपङ्कमिषतश्चन्द्रोऽपि तद्रोपितम्लानिर्दानिवरस्य यस्य यशसा तूर्ण प्रतीता नीतीनामुपरि परिपाकेन रमते, मतिर्देवे सेवा सकलकरणैकान्तकरणम् । अहो ! यस्यावश्यं शठरिपुहठप्राणहरणं, रणं दीने दानं सपदि विपदेकक्षयलयः ।। कोपाटोपपरैः परैश्चलचमूरङ्गत्तुरङ्गक्षतक्षोणिक्षोदवशादशोषि जलधियः स्तम्भतीर्थ स्वेदाम्भस्तटिनीघटाघटनया श्रीवस्तुपालस्फुरत्तेजस्तिग्मगर्भस्तितप्ततनुभिस्तैरेव सम्पू यः प्रत्यर्थिक्षितिपतिकरिच्छेदमेदस्विशक्तिर्मुक्तागौरैरवनिवलयं कीर्तिपूरैरपूरि । तं वल्गन्तं युधि विधुरयामास संग्रामसिंह, निस्त्रिंशो यत्करपरिचितः कृष्णसारोऽपि राज्यातः सवामसिंहो बा, शवो वा सिन्धुराजभूः । संयुध्य भज्यमानोऽस्य, युद्धे सत्याभिधोऽभवत् भमः शङ्ख इति स्वरैर्दिविषदामाक्षिप्य लक्ष्मीमुखं, लक्ष्मीशः किल शङ्खलक्ष्मणि करे चिक्षेप चक्षुश्चलम् । कीर्त्या लुप्तमवीक्ष्य शङ्खममलं यस्य स्वयं विस्मयं, गच्छन् कश्मलसिन्धुराजतनुभूकीर्त्या कृतार्थीकृतः असौ कीर्तीः स्वका मन्त्री, कामं त्रीणि जगन्त्यनु । वस्तुपालोऽरिसामन्तयशसामन्तकोऽक्षिपत् ॥ पद्माभिरामहस्तेन, महस्तेन प्रतन्वता । रविणेव तमःस्तोमः, समस्तो महता हतः ॥ १४२ ॥ १ तत्प्राप्त्या यस्य नाम्नः मुद्रिते ॥ २ गुणिप्रेयसी कां०॥ ३ पद्यमिदं उदयप्रभीयवस्तुपालस्तुती नवमपद्यतयाऽपि वर्तते ॥ ४ कृते निर्भरं, त्रैलो उदयप्रभीयवस्तुपालस्तुतौ ॥ ५ पद्यमिदमुदयप्रभनाम्ना निर्दिष्टं प्राचीनलेखसंग्रह भाग २ मध्ये ४३ संख्यगिरिनारसत्कशिलालेखे द्वितीयपद्यतयाऽपि दृश्यते ॥ ६ भस्तिना प्रतनु मुद्रिते ॥ ७ पद्यमिदं उदयप्रभीयवस्तुपालस्तुतौ अष्टादशपद्यतया वर्त्तते ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002919
Book TitleVastupal Prashasti Sangraha
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1963
Total Pages154
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy