________________
१४, ९७-१२१ ]
चतुर्दश अध्याय
३३
९७
९८
९९
१००
१०१
१०६
१०७
पैंदा बृहस्पतिः शुक्रं भिद्येदथ विशेषतः । पुरोहितास्तदाऽमात्याः प्राप्नुवन्ति महद्भयम् ॥ ग्रहाः परस्परं यत्र भिन्दन्ति प्रविशन्ति वा । तत्र शस्त्रंवाणिज्यानि विन्द्यादर्थविपर्ययम् ॥ स्वतो ग्रहमन्यं श्वेतं प्रविशेत लिखेत् तदा । ब्राह्मणानां मिथो भेदं मिथः पीडां विनिर्दिशेत् ॥ एवं शेषेषु वर्णेषु स्ववर्णैश्चारयेद् ग्रहः । वर्णतः स्वभयानि स्युस्तद्युतान्युपलक्षयेत् ॥ श्वेतो ग्रहो यदा पीतो रक्तकृष्णोऽथवा भवेत् । स्ववर्णविजयं कुर्यात् यथास्वं वर्णशङ्करम् ॥ उत्पाता विविधा ये तु ग्रहाऽऽघाताश्च दारुणाः । उत्तराः सर्वभूतानां दक्षिणा मृगशृङ्गिणाम् ॥ १०२ करङ्कं शोणितं' मांसं विद्युत भयं वदेत् । दुर्भिक्षं जनमारिं च शीघ्रमाख्यान्त्युपस्थितम् ॥ १०३ शब्देन महता भूमिर्यदा रसति कम्पते । सेनापतिरमात्यश्च राजा राष्ट्रं च पीड्यते ॥ १०४ फले फलं यदा किश्चित् पुष्पे पुष्पं च दृश्यते । गर्भाः पतन्ति नारीणां युवराजा च वध्यते ॥ १०५ नर्तनं जल्पनं' हासमुत्कीलन - निमीलने । दिवा यत्र प्रकुर्वन्ति तत्र विन्द्यान्महद्भयम् ॥ *पिशाचा यत्र दृश्यन्ते देशेषु नगरेषु वा । अन्यराजा भवेत्तत्र प्रजानां च महद्भयम् ॥ भूमिर्यत्र नभो” याति विशति" वसुध जलम् । दृश्यन्ते वाऽम्बरे देवास्तदा राजबधो ध्रुवम् ॥ १०८ धूम-ज्वालां रजो भस्मै॑ यदा मुवंति देवताः । तदा तु म्रियते राजा मूलतस्तु जनक्षयः ॥ मृग-पक्षि"-पशूनां च भाषणे ज्वलने गमे । जनक्षयाः प्रभूतास्तु विकृते वा नृपवधः ॥ $ विकृताकृति - संस्थाना जायन्ते यत्र मानवाः । तंत्र राजवधो ज्ञेयो विकृतेन मुखेन वा ॥ वधः सेनापतेश्चापि" भयं दुर्भिक्षमेव च । अमेर्वा ह्यथवी वृष्टिस्तदा स्यान्नात्र संशयः ॥ द्वारं शस्त्रगृहं" वेश्म राज्ञो देवगृहं तथा । धूमायन्ते यदा राज्ञस्तदा मरणमादिशेत् ॥ || परिधाऽर्गली कपाटं द्वारं रुन्धन्ति वा स्वयम् । पुररोधस्तदा विन्द्यानैगमानां महद्भयम् ॥ यदा द्वारेण नगरं शिवा प्रविशते दिवा । वास्यमाना विकृता वा तदा राजवधो ध्रुवम् ॥ अन्तःपुरेषु द्वारेषु विष्णुमित्रे (तीर्थे) तथा पुरे । अट्टालकेऽथ हट्टेषु मधु लीनं विनाशयेत् ॥ धूमकेतुहतं मार्गं शुक्रश्चरति वै यदा । तदा तु सप्त वर्षाणि महान्तमनयं वदेत् ॥ गुरुणा प्रहतं मार्ग यदा भौमः प्रपद्यते । * * भयं स ( स ) र्वजनिकं करोति बहुधा नृणाम् ॥ भौमेनापि हतं मार्ग यदी सौरिः " प्रपद्यते" । तदाऽपि शूद्र- चौराणामनयं कुरुते नृणाम् ॥ सौरेण तु हतं मार्ग वाचस्सं" (वाचस्पतिः) प्रपद्यते " । भयं सर्वजनानां तु करोति बहुधा तदा ॥ १२० राजदीपो निपतते भ्रश्यतेऽधः कदाचन । षण्मासात्पञ्चमासाद्वा नृपमन्यं" निवेदयेत् ॥
१०९
११०
१११
११२
११३
११४
११५
११६
११७
११८
११९
१२१
* C this is missing in C. †B This second half is not found in this Ms. 1 C शास्त्र । 2 ABD 'विवर्धनम् । 3 A सुवर्ण । 4 A स्वर्ण संकरम् ; C स्वं चार्य शंकरम्; D सुवशंकरम् । 5 BCD करंक | 6ABD प्राणितं । 7 ACD विकृताश्च । 8A रसवि । 9ABD जकनं । 10 C सम्मीलन | † this is not found in A BD. 11 A सूरिर्यु च । 11-12 C नभयं भूमिमा । 13 A CD विंशति । 14 A वपु च; B वपुषं; D वपुवं । 15 A यस्य । 16-17 C घोरचैव । 18 C स्थिरमास° । $ABD सत्यं जना सदं वा च । SC पीडा तत्र प्रजानां च विकृते तु नृपो वधः ॥ 19 A B D राज्ञः। 20 - 21 A र्वह्निर्व्यथा । 22 A भयं । || C missing in this Ms. 23-24 A परिसार्या । C this st. is found with some variations in the following manner in this Ms:-गृहे अन्तःपुरे द्वारे मंडे गोपुरोद्भवः । अट्टालकेष्वथागेषु मधु लीनं न शोभनम् ** C क्षत्रियाणां बहुविधं तदाऽपि भयमादिशेत् ॥ 25-26 A वावस्सं । 27 A प्रतिपद्यते । 28 D अन्नक्षयं । 29B चोभयं; C यदा सौरिः; D चावश्यं । 30ABD प्रतिपद्यते । tt ABD राजाप्रदीपो नृपतेर्भज्यते वा कदाचन । 31 C मृत्युं ।
भ० सं० ५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org