________________
१२, ५-३०]
द्वादश अध्याय पूर्वसन्ध्यासमुत्पन्नः पश्चिमायां प्रयच्छति । पश्चिमायां समुत्पन्नः पूर्वायां च प्रयच्छति ॥ नक्षत्राणि मुहूतांश्च सर्वमेवं समादिशेत् । षण्मासाने समतिक्रम्य ततो देवः प्रवर्षति ॥ गर्भाधानादि ये मासास्ते च मासा अवधारिणः । विपाचनत्रयश्चापि त्रयः कालाभिवर्षणाः ॥ ७ शीतवातश्च विद्युञ्च गर्जनं परिवेषणम् । सर्वगर्भेषु शस्यंते *निम्रन्थाः साधुदर्शिनः ॥ ८ गर्भास्तु विविधा ज्ञेयाः शुभा-ऽशुभा यदा तदा । पापलिङ्गा निरुदका भयं दारसंशयः ॥ ९ उल्कापाता दिशा दाहा निर्घाताः पांशुवृष्टयः । गृहयुद्धं निवृत्तिश्च ग्रहणं चन्द्र-सूर्ययोः ॥ १० ग्रहाणां चरितं चक्रं साधूनां कोपसंभवम् । गर्भाणामुपघाताय न ते गाह्या विपश्चितैः॥ ११ धूमं रजः पिशाचांश्च शस्त्रमुल्कां सनागजः । तैलं घृतं सुरामस्थि क्षारं लाक्षां वसां मधु ॥ १२ अङ्गारकान नखान् केशान् मांस-शोणित-कईमान् । विपच्यमाना मुञ्चन्ति गर्भाः पापभयावहाः ॥ १३ कार्तिकं वाऽथ पौषं च चैत्र-वैशाखमेव च । श्रावणं चाश्विनं सौम्यं गर्भ विन्द्याद् बहूदकम् ॥ १४ ये तु पुष्येण दृश्यन्ते हस्तेनाभिजिता तथा । अश्विन्यां संभवन्तश्च ते पश्चान्नैव शोभनाः ॥ १५ आद्राऽऽश्लेषासु ज्येष्ठासु मूले वा संभवन्ति ये । गर्भागमनदक्षाश्च तेऽपि तांश्च वरोदकाः ॥ १६ उत्थितं चापि वैशाख स्रवन्तं कार्तिकं जलम् । हिमागमेन गमिका मन्दोदास्ते प्रकीर्तिताः ॥ १७ स्वातौ च मैत्रदेवे च वैष्णवे च सुषारुणे" । गर्भास्तु धारणा ज्ञेया संभवन्तो बहूदकाः ॥ १८ पूर्षामुदीची(चि)मैशानी ये गर्भा विशमाश्रिताः । ते सस्यवन्तस्तोयाद्यास्ते गर्भास्तु सुपूजिताः ॥ १९ वायव्यां(यायां) तु वारुण्यां गर्भा ये संभवन्ति च । मध्यम वर्षणं दाः सस्र्यसंपर्दमेव च ॥ २० शिष्टं सुभिक्षं विज्ञेयं जघन्या नात्र संशयः । मन्दगाश्च घना वा च सर्वतश्च सुपूजिताः ॥ २१ मारुतः तत्प्रभवाः(क्षाः) गर्भा धूयन्ते मारुतेन च । वाता(तो) वर्षन्तु गर्भाश्च करोत्यपकरोति च ॥ २२ कृष्णानीलाश्च रक्ताश्च पीताः शुक्लाश्च सर्वतः। व्यामिश्राश्चापि ये गर्भाः स्निग्धाः सर्वत्र पूजिताः ॥ २३ अप्सराणां तु सदृशाः पक्षिणां जलचारिणाम् । वृक्ष-पर्वतसंस्थाना गर्भाः सर्वत्र पूजिताः ॥ २४ पापी"-कूप-तडागानि नद्यश्चापि मुहुर्मुहुः । पूर्यते" तादृशैर्ग:तोयलिन्नधरावहैः॥ २५ नक्षत्रेषु तिथौ चापि मुहूर्ते करणे दिशि । यत्र यत्र समुत्पन्नाः स्निग्धाः सर्वत्र पूजिताः ॥ २६ *सुसंस्थानाः सुवर्णाश्च सुवेषाः स्वभ्रजी धनाः । सुबिन्दवः स्थिता गर्भाः सर्वे सर्वत्र पूजिताः ॥ २७ कृष्णा सक्षाः सुखण्डाश्च विद्रवन्तः पुनः पुनः । विस्वरौ रूक्षशब्दाश्च गर्भाः सर्वत्र निंदिताः ।। २८
अन्धकारसमुत्पन्ना गर्भास्ते तु न पूजिताः । चित्राः स्रवन्ति सर्वाणि गर्भाः सर्वत्र निंदिताः ॥ २९ मन्दवृष्टिमनावृष्टि भयं राजपराजयम् । दुर्भिक्षं मरणं रोगं गर्भाः कुर्वन्ति तादृशम् ॥ .. ३०
1 A D °मासं। 2 A. वर्षेषु; D वर्षति । * C भद्रबाहुवचो यथा ॥ + C भयदा तोयदा तदा । 3 B सधूम। 4 B सना सजः; C सनीरजा; D सवागजा। 5 A क्षौरं। 6 A च सा; D not found. 7 A अङ्गाकं; B अंगरकान् ; C अंकारकं। 8 A मुख्येण । 9A अभिजनाः। 10 A°गमनदक्षाः, B. गगणगच्छाः Coगमनपूर्वाः। 11 A ताशु; C पश्राद् । 12 Cदूरोदका। ICThis is not found in this Ms. 13 A. सुदारणे; C सवारुणे; D सदारुणे। MC From this line onwards five lines are missing in this Ms. 14 B सस्याः ; D संपदं। 15 D सस्यम् । 16 D घ्रियते । 17 B मारुतं: C मारुता। 18 ACD वप्र। 19 A पूते; BD पूज्यंते । * Cthis st. is not found in this Ms. 20 A. शुभ्रजा। 21 AC D विश्वरा। 1 Before this stanza, the following st. is found in BCD:-अत्युष्णाश्चातिशीताश्च बहूदका विकृताश्च ये। चित्राः सवन्ति सर्वाणि गर्भाः सर्वत्र निंदिताः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org