SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट (For convenience of easy reference and study, I have put, in this Appendix, those stanzas of Vārāhīsahmilā which I have compared with those of Bhadrabāhrsamhită in the Introduction). अध्याय ३ दण्डे नरेन्द्रमृत्युाधिभयं स्यात् कबन्धसंस्थाने । ध्वाङ्गे च तस्करभयं दुर्भिक्षं कीलकेऽर्कस्थे ॥१७॥ ____ + + + रूक्षः श्वेतो विप्रान् रक्ताभ पीतो वैश्यान् कृष्णस्ततोऽपरान् शुभकरः स्निग्धः ॥ २५ ॥ सामान् रक्ताभः क्षत्रियान् विनाशयति। श्यामेऽर्के कीटमयं भस्म निभे भयमुशन्ति परचक्रात् । यस्यः सच्छिद्रस्तस्य विनाशः क्षितीशस्य ॥२९॥ शशरुधिरनिभे भानौ नभस्तलस्थे भवन्ति संग्रामाः। शशिसदृशे नृपतिवधः क्षिप्रं चान्यो नृपो भवति ॥ ३० ॥ ___ + + + अमलवपुरवक्रमण्डलः स्फुटविपुलामलदीर्घदीधितिः। अविकृततनुवर्णचिह्नभृजगति करोति शिवं दिवाकरः ॥ ४० ॥ अध्याय ४ प्रतिदिवसमेवमर्कात् स्थानविशेषेण शौक्ल्यपरिवृद्धिः।भवति शशिनोऽपराहे पश्चाद्भागे घटस्येव॥४॥ ऐन्द्रस्य शीतकिरणो मूलाषाढाद्वयस्य वा यातः। याम्येन बीजजलचरकाननहा वह्निभयदश्च ॥५॥ दक्षिणपान गतः शशी विशाखानुराधयोः पापः । मध्येन तु प्रशस्तः पित्र्यस्य विशाखयोश्चापि ॥६॥ षडनागतानि पौष्णाद् द्वादश रौद्राश्च मध्ययोगीनि । ज्येष्ठाद्यानिनवाण्युडुपतिनातीत्य युज्यन्ते ॥७॥ युगमेव याम्यकोदयां किञ्चित्तुंगं स पार्श्वशायीति । विनिहन्ति सार्थवाहान वृष्टेश्च विनिग्रहं कुर्यात् ॥ १३ ॥ प्रोक्तस्थानाभावादुदगुच्चः सस्यवृद्धिवृष्टिकरः । दक्षिणतुंगश्चन्द्रो दुर्भिक्षभयाय निर्दिष्टः ॥ १६ ॥ + प्रत्यन्तान् कुनृपांश्च हन्त्युडुपतेः शृंगे कुजेनाहते शस्त्रक्षुद्भयकृद्यमेन शशिजेनावृष्टिदुर्भिक्षकृत् । श्रेष्ठान हन्ति नृपान् महेन्द्रगुरुणा शुक्रेण चाल्पाशुपान् शुक्ले याप्यमिदं फलं ग्रहकृतं कृष्णे यथोक्तागमम् ॥ २१ ॥ ___+ + + • गान्धारसौवीरकसिन्धुकीरान् धान्यानि शैलान्द्रविडाधिपांश्च । द्विजांश्च मासान् दश शीतरश्मिः सन्तापयेद्वाक्पतिना विभिन्नः ॥ २३ ॥ ___+ + यौधेयान् सचिवान् सकौरवान् प्रागीशानथ चार्जुनायनान् । हन्यादर्कजभिन्नमण्डलः शीतांशुर्दशमासपीडया ॥ २५ ॥ मगधान्मथुरां च पीडयेद् वेणायाश्च तटं शशाङ्कजः। अपरत्रकृतं युगं वदेद् यदि भित्त्वा शशिनं विनिर्गतः ॥ २६ ॥ क्षेमारोग्यसुभिक्षविनाशी शीतांशुः शिखिना यदि भिन्नः। कुर्यादायुधजीविविनाशं चौराणामधिकेन च पीडाम् ॥ २७ ॥ + + + + Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002917
Book TitleBhadrabahu Samhita
Original Sutra AuthorBhadrabahuswami
AuthorA S Gopani
PublisherBharatiya Vidya Bhavan
Publication Year1949
Total Pages150
LanguageHindi, English
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy