________________
५८
भद्रबाहुसंहिता
[२१, १९-४५ *श्वेतः सुभिक्षदो ज्ञेयः सौम्यः शुक्लः शुभार्थिषु । कृष्णादिषु च वर्णेषु चातुर्वर्ण्य विभावयेत् ॥ १९ केतोः समुत्थितः केतुरन्यो यदि च दृश्यते । क्षु-च्छस्त्र-रोग-विघ्नस्था प्रजा गच्छति संक्षयम् ॥ २० एते च केतवः सर्वे धूमकेतुसमं फलम् । विचार्य वीथिभिश्चापि प्रभाभिश्च विशेषतः ॥ २१ यां दिशं केतवोऽर्चिभिधूमयन्ति दहन्ति च । तां दिशं पीडयन्त्येते क्षुधायैः पीडनैर्भृशम् ॥ २२ नक्षत्रं यदि वा केतुहं वाऽप्यथ धूमयेत् । ततः शस्त्रोपजीवांश्च स्थावरांश्च स हिंसति ॥ २३ स्थावरे धूमिते तज्ज्ञा यायिनो व्यापिनस्तथा। [प्राप्नुवन]त्यनयान घोरान् भयैरुप्रैः प्रपीडिताः॥ २४ शुक्रं दीप्त्या यदि हन्याभूमकेतुरुपागतः । तदा सस्य-नृपान् नागान् दैत्यान् शूरांश्च पीडयेत् ॥ २५ शुकानां शकुनानां च वृक्षाणां चिरजीविनाम् । शकुनि-ग्रहपीडायां फलमेतत् समादिशेत् ॥ २६ शिंशुमार" यदा केतुरुपागत्य प्रधूमयेत् । तदा जलचर तोयं ध्यवक्षांश्च (१)हिंसति ॥ २७ सप्तर्षीणामन्यतमो यदा केतुः प्रधूमयेत् । तदा सर्वभयं विन्द्यात् ब्राह्मणानां न संशयः ॥ २८ बृहस्पतिं यदा हन्याद् धूमकेतुरथार्चिभिः । वेिदविद्याविदो" वृद्धार्न नृपांस्तज्ज्ञांश्च हिंसति ॥ २९ एवं शेषान् ग्रहान् केतुर्यदा हन्योत् स्वरश्मिभिः । ग्रहयुद्धे तदा प्रोक्तं फलं तत्तु समादिशेत् ॥ ३० नक्षत्रे पूर्व दिग्भागे" यदा केतुः प्रदृश्यते । तदा देशान दिशामुग्रां भञ्जन्ते पापदी नृपाः॥ ३१ बङ्गानङ्गान् कलिङ्गांश्च मगधान् काशनन्दनान । पट्टचावांश्च कोशंबी घेणुसारं सदाहवम् ॥ ३२ तोसलिङ्गान् सुलान् नेद्रान् माक्रन्दामलदांस्तथा । कुनटान् सिथलान् महिषान् माहेन्द्रं पूर्वदक्षिणः॥३३ वेणान् विदर्भमालान अश्मकांश्च छर्वणान् । द्रविडान् वैदिकान् द्रादेकलान् दक्षिणापथे ॥ ३४ कोकणान् दंडकान् भोजान् गोमान् सूर्परिक चनम् । किष्किंधान वनवासांश्च लङ्का हन्यात् स नैरुतैः।। ३५ अङ्गान सुराष्ट्रान समुद्रान् भरुकच्छादसेरकान् । शूत्रान् हृषिजलरुहान केतुर्हन्याद्विपथगः ।। ३६ काम्बोजान् रामगांधारान् आमीरान् यवरच्छकान् । चैत्रसोत्रेयकान् सिन्धुमहामन्ययुवायुजः॥ ३७ बाहीकान् वीनविषयान् पर्वतांश्चाप्यदुस्वरान् । सौधेयं कुरुवैदेहान् केतुर्हन्याद्यदुत्तराः ॥ ३८ चासुवर्ण कलिं च किरातान् बर्बगन् द्विजान् । वैदिस्तमिपुलिन्दांश्च हन्ति सात्यां समुच्छ्रितः॥ ३९ सदृशाः केतवो हन्युस्तासु मध्ये वधं वदेत् । व्याधि शस्त्रं क्षुधां मृत्यु परचक्रं च निर्दिशेत् ॥ ४० न काले नियता वेनु(?) न नक्षत्रं दिशस्तथा । आकस्मिको भवत्येव कदाचिदुदितो ग्रहः ॥ ४१ षट् त्रिंशत् तस्य वर्षाणि प्रवासः परमः स्मृतः । मध्यमः सप्तविंशं तु जघन्यस्तु त्रयोदश ॥ ४२ एते प्रायेण दृश्यन्ते येऽन्ये तीव्रभयाहते । प्रवासं शुक्रवञ्चास्य विन्द्यादु(दौ)त्पातिकं महत् ॥ ४३ धूमध्वजो धूमशिखो धूमार्चिधूमतारकः । विकेशी विशिखैश्चैव मयूरो विद्धमस्तकः ॥ ४४ महाकेतुश्च श्वेतश्च केतुमान् केतुवाहनः । उल्काशिखश्च जाज्वल्यः प्रज्वाली वांबरीषकः ॥ ४५
* A B D श्वेते सुभिक्षं डमरं यस्य चाग्रेवद शिखा। 1 A B D विनान्ता। 2 A प्रशा। 3 ABD संशयम् । 4C हेम। 5C यायिनां। 6Cधूमिते। 7 C फलसंयुतम् । 8-9Cशुकेचैतेन। 10C केतुः। 11 A सशिरमारः, B शिशिमा, D शशिमारः। 12 A B प्रधावयेत् । 13 A B D जलधराः। 14 A जसा शूप्य: B यस्या धूप: D जह्याधूथश्च ।C देशांश्च ब्राह्मणान् विद्वान् । 15 B nob found. 16 BD विद्वान्। 17-19 A आदित्या गुरुस्मिभिः; 17 B यस्य;D जहा। 20 ABD नक्षत्रं। 21 ABD पूर्व विक्ष । 22-23 B दशानुग्रा; C भयोमुग्रां । 24 C पापजां। 25 C दिशाम्। Most of the names of the countries occurring in the sts. from 32 to 39 are unintelligible; but I have not tried to emend them as their meaning is clear. 26 A B °चंदनान; Cकाशिकांसथा। 27 ABD परतः। 28Cप्रयाणा। 29Cयेने। 30C मयाहितः। 31A निवासः, BD विसरी। 32Cश्रेतः। 33 C केतुः। 34C not found. 35 not found.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org