________________
१४,१४७-१७५]
चतुर्दश अध्याय क्षीयते वा म्रियते वा पश्चमासात् परं नृपः । गैंजस्यारोहणे यस्य यदा दन्तः प्रभिद्यते ॥ १४७ दक्षिणे राजपीडा स्यात्सेनायास्तु वधं वदेत् । मूलभङ्गस्तु यातारं करिकानं (?) नृपं वदेत् ॥ १४८ मध्यमं रोगजाध्यक्षमग्रजे सपुरोहितम् । बिडाल-नकुलो-लूक-काक कङ्कसमप्रभाः ॥
१४९ यदा भङ्गो भवत्येषां तदा ब्रूयादसत् फलम् । शिरो नासाग्रकण्ठेन सानुस्वारं निशंसनैः ॥ १५० साक्षार्थी सञ्चितं यच्च न तद् ग्राह्यन्तु वाजिनाम् । नाभ्यङ्गतो महोरस्कः कण्ठे वृत्तो सुखेरितः ॥ १५१ स पार्श्वे रुदन्वानुच्चो नो गृह्यते हि स:(?) । अन्योन्यसमुदीक्षन्ते हेष्यस्थानगता हयाः॥ १५२ शयना-ऽऽसने परीक्षा ग्राममारी वदेत् ततः । सन्ध्यायां सुप्रदीप्तायां यद। सेनामुखा हयाः॥ १५३ त्रासयन्तो विभेपन्तो घोरात् पादसमुद्धृताः। दिवसं यदि वा रात्रं हेषन्ति सहसा हयाः ॥ १५४ सन्ध्यायां सुप्रदीप्तायां तदा विन्द्यात् पराजयम् । उञ्जका (उन्मुखा) रुदन्तो वा दीनं दीनं समन्ततः ॥१५५ हया यत्र तदोत्पातं निर्दिशेद्राजमृत्यवे । विच्छिद्यमाना हेर्फते" यदा रूक्षस्वरं हयाः॥ १५६ खरवद्भीमनादेन तदा विन्द्यात् पराजयम् । उत्तिष्ठन्ति निषीदन्ति विश्वसन्ति भ्रमन्ति च ॥ १५७ रोगार्ता इव हेषन्ते तदा विन्द्यात् पराजयम् । अर्द्धमुखा विलोकन्ति विन्द्याजनपदे भयम् ॥ १५८ शान्ताः प्रहृष्टा धर्मार्ता विचरन्ति यदा हयाः । बालानां वीक्ष्यमाणास्ते न ते ग्राह्या विपश्चितैः ॥ १५९ मूत्रं पुरीषं बहुशो विलुप्ताङ्गाः प्रकुर्वतः । हेषन्ते दीननिद्रार्तास्तदा कुर्वन्ति ते जयम् ॥ १६० स्तम्भयन्तोऽथ लालं हेषन्तो दुर्मना हयाः । मुहुर्मुहुश्च जृम्भन्ते तदा शस्त्रभयं वदेत् ॥ १६१ यदा विरुद्धं हेपन्ते स्वल्पं विकृतिकारणम् । तदोपसर्गो व्याधिर्वा सद्यो भवति रात्रिजः॥ १६२ भूम्यां ग्रसित्वा ग्रासं तु हेषन्ते प्राङ्मुखा यदा । अश्वारोधाश्च बद्धाश्च तदा क्लिश्यति क्षुद्भयम् ॥ १६३ शरीरं केसरं पुच्छं यदा ज्वलति वाजिनः । परचक्रं प्रयातं च देशभङ्गं च निर्दिशेत् ॥ १६४ यदा बालाः प्रक्षरन्ते पुच्छं चटपटायते । वाजिनः सस्फुलिङ्गा वा तदा विन्द्यान्महद्भयम् ॥ १६५ हेषन्ते तु यदा राज्ञः" पूर्वाह्ने नाग-वाजिनः । तदा सूर्यग्रहं विन्द्यादपराह्ने तु चन्द्रजम् ॥ १६६ शुष्कं काष्ठं तृणं वाऽपि यदा संदंशते हयः । हेषन्ते सूर्यमुद्वीक्ष्य तदाऽग्निभयमादिशेत् ॥ १६७ यंदा शेवालजलेवाऽपि मग्नं कृत्वा मुखं हयाः । हेषन्ते विकृता यत्र तदाप्यग्निभयं भवेत् ॥ १६८ उल्कासमाना हेषन्ते संदश्य दशनान् हयाः। सङ्ग्रामे विजयं क्षेमं भर्तुः पुष्टिं विनिर्दिशेत् ॥१६९ प्रसारयित्वा ग्रीवां च स्तम्भयित्वा च वाजिनाम्। हेषन्ते विजयं ब्रूयात्सङ्ग्रामे नात्र संशयः॥ १७० श्रमणा ब्राह्मणा वृद्धा न पूज्यन्ते यथा पुरा । सप्तमासात् परं यत्र भयमाख्यात्युपस्थितम् ॥ १७१ अनाहतानि तूर्याणि नर्दन्ति विकृतं यदा । षष्ठे मासे नृपो वध्यः भयानि च तदाऽऽदिशेत् ॥ १७२ कृत्तिकासु यदोत्पातो दीप्तायां दिशि दृश्यते । आग्नेयीं वा समासृत्य त्रिपक्षादग्नितो भयम् ॥ १७३ रोहिण्यां तु यदा घोषो निर्वातो" यदि दृश्यते । सर्वाःप्रजाः प्रपीड्यन्ते षण्मासात्परतस्तदा ॥ १७४ उल्कापातः सनिर्घातः सवातो यदि दृश्यते। रोहिण्यां पञ्चमासेन कुर्याद्धोरं महद्भयम् ॥ १७५.
*C From here onwards some six sts. are not found in this Ms. 1BD हंतः। 2 A करिजं; D करिकाणं। 3A साझाक्षी। 4 A BD महा। 5 BD सुखाः। 6AD संघयो; B संधयो। 7 A हम्रा। 8 A BD उत्तमानां । 9 A D रुदतीच; B सदन्ति च। 10A BD विच्छिद्यते । 11 ABD हेपंहेपं । 121BD विसंति। 13 Cबोला। 14 C संवीक्षमाणा। 15 Cनिमित्ततः। 16 A विष्णु। 17-20 C अवराहावरद्धाश्च । 21 Cप्राङ्गे! C पूर्वनागा सवाजिनाम् ।। B यदास्तेजोज. सेवापि; C यदा सेनाजले वाऽपि । 22 तदा संदशना । 23 C कर्तृः। 24 C वृष्टिम् । 25 A B महा। 26 B मेघो। 7A D निर्धातो; B निर्घाते। 28-29 A B कलहमृत्युदम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org