________________
२२४
भर्तृहरिसुभाषितसंग्रहे अहं ब्रह्मासीति स्फुरदमलबोधो यदि भवेत् • पुमान्पुण्योद्रेकादुपचितपरानर्थविरतिः । तदानीं क्वाविद्या भृशमसहमानौपनिषदं
विचारं संसारः क च विविधदुःखैकवसतिः ॥ ९२ ॥ (३३) कश्चित् क्रन्दति कालकर्कशकराकृष्टं विनष्टं हठाद्
उत्कृष्टं तनयं विलोक्य पुरतः पुत्रेति हा हा क्वचित् । कश्चिन् नर्तकनर्तकीपरिवृतो नृत्यत्यहो कुत्रचिच्
चित्रं संसृतिपद्धतिः प्रथयति प्रीतिं च कष्टं च नः ॥ ९३ ॥(६८) नानं जीयति किंचिदौषधवलं नालं स्वकार्योदये ___ शक्तिशू चङ्गमणे न हन्त जरया जीर्णीकृतायां तनौ । अस्माकं त्वधुना न लोचनबलं पुत्रेति चिन्ताकुलो
ग्लायत्यर्थपरायणोऽतिकृपणो मिथ्याभिमानो गृही ॥९४ ॥ (५०) अन्नाशाय सदा रटन्ति पृथुकाः क्षुत्क्षामकण्ठाः स्त्रियो
वासोभी रहिता बहिव्यवहृतौ निर्यान्ति नो लज्जया। गेहादङ्गणमार्जनेऽपि गृहिणो यस्येति दुर्जीवितं
यद्यप्यस्ति तथापि तस्य विरतिनोंदेति चित्रं गृहे ॥ ९५ ॥ (५७) सद्वंशो गुणवानहं सुचरितः श्लाघां करोत्यात्मनो
नीचानां विदधाति च प्रतिदिनं सेवां जनानां द्विजः। योषित् तस्य जिघृक्षया स च कुतो नो लज्जते सजनाल
लोमान्धस्य नरस्य नो खलु सतां दृष्टं हि लज्जाभयम् ॥ ९६ ॥ (४९) कामादित्रिकमेव मूलमखिलक्लेशस्य मायोद्भवं ___मानामिति देवमौलिविलसद्राजिष्णुचूडामणिः । श्रीकृष्णो भगवानवोचदखिलपाणिप्रियो मत्प्रभुर
यस्मात् तत्रिकमुद्यतेन मनसा हेयं पुमार्थिना ॥ ९७ ॥ (२०) यत्प्रीत्यर्थमनेकधामनि मया कष्टेन वस्तु प्रियं ।
स्वस्साशाकवलीकृतेन विकलीभावं दधानेन मे । तत्सर्व विलयं निनाय भगवान् यो लीलया निर्जरो
मां हित्वा जरयाकुलीकृततर्नु कालाय तस्मै नमः॥९८॥ (६५)
921) क्व च तव ममेत्यल्पविषयोऽभिमानः (for भृशम'-'चार), 944) B "भिमानी.. 96 ") । यो वित्तस्य ( योषित्तस्य). 98 ") B °धालभि (for 'धामनि).
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org