________________
२२३
विज्ञानशतकम् । निष्कामा मुनयः परावरदृशो निधूतपापोदया
निःसङ्गा निरहंकृता निरुपमानन्दं परं लेभिरे । यद्गत्वा न लुठन्ति मातृजठरे दुःखाकरे मानवा
दुर्गन्धे पुनरेत्य काममकरे संसारपाथोनिधौ ॥ ८४ ॥ (२८) कामस्यापि निदानमाहुरपरे मायां महाशासनां
निश्चित्कां सकलप्रपञ्चरचनाचातुर्यलीलाक्तीम् । यत्सङ्गाद् भगवानपि प्रभवति प्रत्याहामोहहा
श्रीरङ्गो भुवनोदयावनलयव्यापारचक्रेऽक्रियः॥८५॥ (२१) तुल्यार्थेन त्वमैक्यं त्रिभुवनजनकस तत्पदार्थः प्रपद्य
प्रत्यक्षं मोहजन्म त्यजति भगवति त्वंपदार्थोऽपि जीवः । श्रुत्याचार्यप्रसादान् निरुपमविलसद्ब्रह्मविद्यस्तदैक्यं
प्राप्यानन्दप्रतिष्ठो भवति विगलितानाद्यविद्योपरीहः॥८६॥ (३२) संन्यासो विहितस्य केशवपदद्वन्द्वे व्यधायि श्रुता
वेदान्ता निरवद्यनिष्कलपरानन्दाः सुनिष्ठाश्चिरम् । संसारे वधबन्धदुःखबहुले मायाविलासेऽव्ययं
ब्रह्मास्मीति विहाय नान्यदधुना कर्तव्यमास्ते क्वचित् ।। ८७॥(३५) हित्वा विश्वाद्यवस्थाः प्रकृतिविलसिता जाग्रदायैर्विशे पैः
साधं चैतन्यधातौ प्रकृतिमपि समं कार्यजातैरशेषैः । ज्ञानानन्दं तुरीयं विगलितगुणकं देशकालाद्यतीतं
स्वात्मानं वीतनिद्रः सततमधिकृतशू चिन्तयेदद्वितीयम् ॥८८॥(३४)
अग्रे पश्चादधस्तादुपरि च परितो दिक्षु चान्यास्वनादिः
कूटस्था संविदेका सकलतनुभृतामन्तरात्मानियत्री । यस्यानन्दस्वभावा स्फुरति शुभधियः प्रत्यहं निष्प्रपञ्चा
जीवन्मुक्तः स लोके जयति गतमहामोहविश्वप्रपञ्चः॥९०॥(३६) काहं ब्रह्मेति विद्या निरतिशयसुखं दर्शयन्ती विशुद्धं
कूटस्थं स्वप्रकाशं प्रकृतिसुचरिता खण्डयन्ती च मायाम । क्वाविद्याहं ममेति स्थगितपरसुखा चित्तभित्तौ लिखन्ती
सर्वानर्थाननर्थान् विषयगिरिभुवा वासनागैरिकेण ॥९१ ॥ (२६.)
85 ") N महाशासना(:). -- ") N "चके क्रियाः. 86 ) B नाद्यविद्यो निरीहः, Locuna in N for 89. 90 ") N धान्या (for चान्या")?. 91 ") Bकाह. -") B कूटस्थ- (ior कूटस्थं). -") B गिरिभ वा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org