________________
२१८
भर्तृहरिसुभाषितसंग्रहे
नाभ्यस्तो धातुवादो न च युवतिवशीकारकः कोऽप्युपायो
नोवा पौराणिकत्वं न सरसकविता नापि नीतिर्न गीतिः । तस्मादर्थार्थिनां या न भवति भवतश् चातुरी कापि विद्व ज्ञात्वेत्थं चक्रपाणेरनुसर चरणाम्भोजयुग्मं विभूत्यै ॥ ४७ ॥ (५३) अर्थवोऽनर्थजातं भवति तनुभृतां यौवनादिष्ववश्यं
पित्राद्यैरर्जितेभ्योऽनुपकृतिमतिभिः खात्मनैवार्जितेभ्यः । यस्माद् दुःखाकरेभ्यस् तमनुसर सदा भद्र लक्ष्मीविलासं
4
गोपालं गोपकान्ताकुचकलशतटीकुङ्कुमासङ्गरङ्गम् ॥ ४८ ॥ ( ५४ ) भ्रातः शान्तं प्रशान्ते क्वचिदपि निपतन् मित्र रे भूधराग्रे ग्रीष्मे ध्यानाय विष्णोः स्पृहयसि सुतरां निर्विशङ्के गुहायाम् । अन्विष्यंस् तादृगत्र क्षितिवलयतले स्थानमुन्मूल यावत्
संसारानर्थवृक्षं प्रथिततममहामोहमूलं विशालम् ॥ ४९ ॥ ( १७ ) केदारस्थानमेकं रुचिरतरमुमानाट्य लीलावनीकं
प्रालेयाद्रिप्रदेशे प्रथितमतितरामस्ति गङ्गानिवेशे । ख्यातं नारायणस्य त्रिजगति बदरीनाम सिद्धाश्रमस्य तत्रैवानादिमूर्तेर्मुनिजनमनसामन्यदानन्दमूर्तेः ।। ५० ।। ( १०० ) सन्त्यन्ये त्रिदशापगादिपतनादेव प्रयागादयः
प्रालेयाचलसंभवा बहुफलाः सिद्धाश्रमाः सिद्धयः । यत्राघौघसा भवन्ति सुधियां ध्यानेश्वराणां चिरं
मुक्ताशेषभियां विनिद्रमनसां कन्दाम्बुपर्णाशिनाम् ॥ ५१ ॥ ( ९९ ) किं स्थानस्य निरीक्षणेन मुरजियानाय भूमण्डले
तद् विरतिर्भवेद् दृढतरा यस्य सादौ सदा । तस्यैषा यदि नास्ति हन्त सुतरां व्यर्थं तदन्वेषणं
स्थानस्थानधिकारिणः सुरधुनीतीराद्रिकुञ्जादिषु ।। ५२ ।। (४४) स्वान्तव्योम्नि निरस्तकल्मपघने सद्बुद्धितारावली
संदीप्ते समुदेति चेन् निरुपमानन्दप्रभामण्डलः । ब्रह्मज्ञानसुधाकरः कवलिताविद्यान्धकारस तदा
क व्योम क्क सदागतिः क्व हुतभुक् क्वाम्भः क्व सर्वंसहा ॥ ५३ ॥ (२५)
47 ) N न च सरस
(hypermetric).
49 4 ) N प्रशान्तं (for न्ते). - " ) 3 निर्विशङ्क
B उन्मूलयैतत् " ) B "वृक्षे. (for एव ). “ ) D "दहा (for "सहा). ') Bसा चैषा ( for तस्यैषा ).
48 ) B स्वात्मना वर्जितेभ्यः. 4 ) N अन्वेष्यं ( for अन्विष्यंस् ). B मथितगुरु (for प्रथिततम ). 51 ) B पुण्याः 52 ) B सक्चन्दनादौ (for यस्य सगादी.). N तदान्वेषणं. 53 ) Bataifa.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org