SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ विज्ञानशतकम् । भुक्तिः कापि न मुक्तिरस्त्यभिमता क्वाप्यस्ति मुक्तिर्न सा काश्यामस्ति विशेष एव सुतरां श्लाघ्यं यदेतद् द्वयम् । सर्वैरुत्तममध्यमाधमजनैरासाद्यतेऽनुग्रहाद् देवस्य त्रिपुरद्विषः सुरधुनीस्नानावदातव्ययैः ॥ ४० ॥ (९८) विद्यन्ते द्वारकाद्या जगति बहुविधा देवताराजधान्यो यद्यप्यन्यास तथापि स्खलदमलजलावर्तगङ्गातरङ्गा । काश्येवाराम कूजत्पिकशुकचटकाक्रान्तदिक्कामिनीनां क्रीडाकासारशाला जयति मुनिजनानन्दकन्दैकभूमिः ॥ ४१ ॥ (९४) काशीयं समलंकृता निरुपमस्वर्गापगासंभवस्थूलोत्तारतरङ्ग बिन्दु विलसन्मुक्ताफलश्रेणिभिः । चञ्चचञ्चलचञ्चरीकनिकरश्यामाम्बरा राजते कासारस्य विनिद्रपद्म नयना विश्वेश्वरप्रेयसी ॥ ४२ ॥ (९५) वह्निप्राकारबुद्धिं जनयति वलभीवासिनां नागराणां गन्धारण्यप्रसूतस्फुटकुसुमचयः किंशुकानां शुकानाम् । चाकारो वसन्ते परमपदपदं राजधानी पुरारेः सा काश्यारामरम्या जयति मुनिजनानन्दकन्दैकभूमिः ।। ४३ ।। (९६) भजत विबुधसिन्धुं साधवो लोकबन्धुं हरहसिततरङ्गं शंकराशीर्षसङ्गम् । दलितभवभुजंगं ख्यातमायाविभङ्ग निखिलभुवनवन्द्यं सर्वतीर्थानवयम् ॥ ४४ ॥ (८७) यदमृतममृतानां भङ्गरङ्गप्रसङ्गप्रकटितरसवत्तावैभवं पीतमुच्चैः । - दलयति कलिदन्तांस तां सुपर्वस्रवन्तीं किमिति न भजतार्ता ब्रह्मलोकावतीर्णाम् ॥ ४५ ॥ (८८) स्वाधीने निकट स्थितेऽपि विमलज्ञानामृते मानसे विख्याते मुनिसेवितेऽपि कुधियो न स्त्रान्ति तीर्थे द्विजाः । यत्तत्कष्टमहो विवेकरहितास्र तीर्थार्थिनो दुःखिता यत्र क्वाप्यटवीमटन्ति जलधौ मञ्जन्ति दुःखाकरे ॥ ४६ ॥ (६३) 41 4 ) N कति न ता (for बहुविधा ). - " ) Ms. शाला कुसुमपरिमलाकृष्टहृष्टालिमाला. 42 ) N व्योमगा- ( for "संभव" ). © ) N निकरारागाम्बरा- 45 4 ) B 464) N has a lacuna for मज - करे. यममृतं. # ) B कलिदोषांस्तां. २१७ २८ भ. सु. Jain Education International ww For Private & Personal Use Only www.jainelibrary.org
SR No.002915
Book TitleShataka Trayadi Subhashit Sangraha
Original Sutra AuthorBhartuhari
AuthorDharmanand Kosambi
PublisherBharatiya Vidya Bhavan
Publication Year1948
Total Pages346
LanguageHindi, English
ClassificationBook_Devnagari & Literature
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy