________________ APPENDIX II General Maxims in the SMK अतिपीडिताः पुरुषाः कोपवशान्नतदस्ति यन्न कुर्वते / (Folio 124 A). अनतिक्रमणीयान्यवश्यंभाव्यानि। (122A). . अपूर्वः पुमान् स्थानद्वय एपावाप्यते, यदि स्वाध्यायी तदा मठिकादौ, अथ राजपुत्रादिस्तदा शून्यदेवालयादो (101 A). अप्रतिविधेया नियतिः / (122 A) अवमता हि पुरुषास्तनास्ति यन्न कुर्वन्ति (133 A). असद्गुणख्यापनं हि दोषाय, यथार्थगुणाख्यानं पुनरनवगीतमेव / (4 A). आवजितचित्त एव रजयितुं शक्यः, रञ्जितचित्तवृत्तिहिं सर्वस्वं जीवितं च प्रयच्छति। (30 B, 31 A). एक्कु लीयंतह दुइजउ नासइ / (97 A) गार्हस्थ्यं हि निखिलाश्रमजीवभूतम्। (145_B). जातस्य जन्तोनियतमेव निर्याणेन भवितव्यम् / (92 B). दुन्तिद्वि रददुर्धराणि चेन्द्रियाणि / (33 A). दुर्लङघ्या हतविधेविलसितानां गतिः / (122 A). धूर्तेभ्योऽपि प्रयत्नादात्मा रक्षणीयः / (83 A). न चानुत्पादितापत्यः पैतृकादृणान्मुच्यते पुरुषः। (145 B).. नलिनीदलनिपतितजललवतरलं प्रकृत्यैव मनः / (38 A). पराशयं परिज्ञाय अनुप्रविश्य परो रञ्जनीयः। (60 A). प्रकृत्यैव त्यक्तस्नेहा खलसङ्गतिथूरत एव परिहरणीया। (33 B). प्रतिप्राणीदुविज्ञेयाश्चित्तवृत्तयः / (31 A). महासत्वं महासाहसिकं च सम्यगुपलभ्य आत्मत्यागेनाप्यर्थं साधयतां न दुरापाः स्वार्थसिद्धयः (70 A). यो हि यदाशयस्तत् तेनानुप्रविश्य विश्रावयतां निश्चितैवार्थसिद्धिः। (69 A). यौवनं नामातिगहनमन्धं तमः, दुःपरिहरं सर्वप्राणिभिः / (33 A). रागो व्याघ्र इव दूरतः परिहरणीयः / (124 B). विलासिन्यो हि दृष्टिविषवराङ्गनासनाभयो दूरत एव मनोमोहमुत्पादयन्ति / (33 B). विष्टिरिवानिष्टकारिणी योषितां सविकारा दृष्टिः / (38 B). व्याघ्रादिव प्रेम्ण सततमात्मा रक्षणीयः / (32 B). स हि महान् भावः, प्रभावख्यापनया तन्नास्ति यन्न वितरतीति / (69 A). सन्ध्यायां शयनं भाग्यवतां नोचितम् / (101 A). समयोल्लङघनं हि क्रियमाणं त्रपाकरमनुचितं च भवति / (46 B). सर्वोन्मादैकायतनं च विभवः / (33 A). सुवर्णमन्यत् सुरभि क्व प्राप्यते। (105 B). स्त्रियो ह्यतिदुराराधाः दुष्टाशयाः चलस्वभावा रक्षितुमशक्याः क्षणविरागिम्यो नीचानुरागिण्यश्च / (145 B). स्त्रियो हि नाम त्रिवर्गकसाधनं, सुखायतनं यशसोऽर्थस्य सन्ततेश्च मलभूताः। (145 B). Jain Education International For Private & Personal Use Only www.jainelibrary.org