________________
शृङ्गारमञ्जरीकथा निम्मितारुणमणिस्तवकालङ्कृतवदनतया प्रजापतिना मुद्रितमिवोच्छृङ्खलं" तेजः सर्वखमिव विधायन्तम् , पुरुषोत्तम वा'......हिता स्ववेषमिव वैनतेयमेकमास्पदम् , रूपश्रियो निवासभवनम् , सौन्दर्यस्य कुलगृहम्, शीलस्यायतनम् , तेजस्वितायाः जीवितम् , जव'......भापटलबहलितज्योत्स्नापूरम् , आजानेयम् , अतिमहाप्रमाणम् , आत्मरूपोपहसितोच्चैःश्र"वसमेकमश्वमपश्य[म्]। दृष्टमात्रेऽपि तस्मिन्निदमहमचिन्तयम्-'सर्वरत्नानामायतनमिदं राजकुलमेतस्मिन्नपि सर्वाद्भुतभाजि राजकुले म"येगश्वरत्नमवलोकितम् ।' यावच सकौतुकमवलोकयामि तावत्तत्पृष्ठमारूढमतिरूपयौवनशालिनमेकं"[F.64. B]पुरुपमद्राक्षम् । स .......... ते पाश्चात्यासने स समुपाविशत् । ततोऽहमचिन्तयम्-'नूनमयं मामेवाकारयितुमायातः ।' ततोऽहमखि"लमपि निजप.........प्य झगिति तुरङ्गममारूढवती। ततः स तेन प्रेरितस्तुरङ्गमो ज्योत्स्नाप्रसर विसरे विहायसि गन्तुं प्रववृते । अर्थ......... नजवतया न जाने तेन कियदूरमहमपवाहिता । यावत् कियन्तमप्यध्वानं गच्छामि तावदप्रभाता"यामपि रज[न्यां] .........त्यभाषत । उदित इव भास्करो व्यभाव्यत । यथा यथा तदभिमुखं नीयमानाया अपि मे न तापप्रतिपत्तिरासीत् ..........तः तथा तथा सुतरां ममावर्धत कुतूहलमुल्ललास च विस्मयातिशयः । यावत्सन्निहिता भवामि तावजात्यकां'......... दृष्टपूर्वमश्रुतचरमनेकमणिकिरणनिकुरम्बकरम्बितं वरतया अभित्तिचित्रकर्मेव निर्मापयन्" [F. 65. A] एक सुरधनुः"...धरस्पर्धयेव धरापीठेऽप्यनेकान्याखण्डलधनुईण्डाडम्बराण्यारचयन् , स्फटिकोपलघटिताण्डक"तयैकचन्द्रमण्डलं.........नेकचन्द्रसहस्राभरणामिव भुवं विदधानम् , उत्तुङ्गतया निखिलकाञ्चनमयतया च मेरुमिव प्रत्यक्षीकुर्वाणां वि............न्वितं परितः समुत्सृतानेकधवलध्वजपटतया हसदिव चन्द्रातपम् , कृष्णागुरुधूपधूमनालैर्वियत्याव"द्धजलजलघर......कपूरक्षोदपूरैरुपचितशरदभ्रममिव स्फुटत्पारिजातमञ्जरीपरिमललोभादुपरिभ्रम"द्भमरतया चन्द्रा"......... रमिवोपलक्ष्यमाणम् , विसारिविविधमणिकिरणराजिरज्जुभिः समन्तादाबध्येव स्थिरीकृतम् , भूमिनिहितं विम"...... दीयद्वारदेशपर्यन्तमासाद्य स तुरगः क्षिताववततार । अवतीर्णे च तस्मिन् स पुरुषस्तुरङ्गं समर्प्य दारपा [F. 65. B] १६............कक्रोशपरिमाणे स्फटिकशिलासोपानवीथिकयाऽऽरुह्य, कचित् क्वचिदरुणमणिशि"............... हरिचन्दनरसविरचितस्वस्तिकम् , क्वचित् काञ्चनभूमिकासु विहितमुक्ताफलचतुष्कम् , क'......... तम्, सर्वत्र सर्वतः
विनष्टान्यत्र ६-७ अन्यक्षराणि। २ विनष्टान्यत्र ६-७ अन्यक्षराणि । ३ विनष्टान्यत्र ९-१० अक्षराणि । ४ विनष्टान्यत्र ९-१० अक्षराणि । ५ दिसर। ६ विनष्टान्यत्र ९-१० अक्षराणि । ७ विनष्टान्यत्र ९-१० अक्षराणि । ८ विनष्टान्यत्र ९-१० अक्षराणि । ९विनष्टान्यत्र ९-१०अक्षराणि । १० विनष्टान्यत्र९-१० अक्षराणि । ११ विनष्टान्यत्र ९-१० अक्षराणि । १२विनष्टान्यत्र ९-१० अक्षराणि। १३ विनष्टान्यत्र ९-१० अक्षराणि। १४ विनष्टान्यत्र ९-१० अक्षराणि । १५ विनष्टान्यत्र ९-१० अक्षराणि । १६ ६६तमस्य पत्रस्योत्तरभाग एव प्राप्तः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org