________________
APPENDIX I From AV:
स्वप्नं सुप्त्वा यदि पश्यासि पापं मृगः सृति यति धावादर्जुष्टाम् । परिक्षवाच्छकुनैः पापवादाद्यं मणिवरणो वारयिष्यते ॥ ६ ॥ अरात्यास्त्वा निर्ऋत्या अभिचारादो भयात् । मृत्योरोजीयसो वधाद् वरणो वारयिष्यते ॥ ७ ॥ (10,3, 6-7 ; p. 146) : II From AA:
तौ यत्र विहीयेते चन्द्रमा इवादित्यो दृश्यते न रश्मयः प्रादुर्भवन्ति लोहिनी द्यौर्भवति यथा मञ्जिष्ठा व्यस्तः पायुः काककुलायगन्धिकमस्य शिरो चायति संपरेतोऽस्यात्मा न चिरमिव जीविष्यतीति विद्यात् । स यत्करणीयं मन्येत तत्कुर्वीत यदन्ति यश्च दूरक इति सप्त जपेदादित्प्रत्नस्य रेतस इत्येका यत्र ब्रह्मा ।। पवमानेति षळुद्वयं तमसस्परीत्येका। अथापि यत्र छिद्र इवादित्यो दृश्यते रथनाभिरिवामिख्यायेत छिद्रां वा छायां पश्येत्तदप्येवमेव विद्यात् । अथाप्यादर्श वोदके वा जिह्मशिरसंवा शिरसं वात्मानं पश्येद्विपर्यस्ते वा कन्याके जिह्येन वा दृश्येयातां तदप्येवमेव विद्यात् । अथाप्यपिधायाक्षिणी उपेक्षेत तद्यथा बटरकाणि संपतन्तीव दृश्यन्ते तानि यदा न पश्येत्तदप्येवमेव विद्यात् । अथाप्यपिधाय 15 कर्णा उपशृणुयात्स एषो अग्नेरिव प्रज्वलतो रथस्येवोपब्दिस्तं यदा न शृणुयात्तदप्येवमेव विद्यात् । अथापि यत्र नील इवाग्निदृश्यते यथा मयूरग्रीवामेघे वा विद्युतं पश्येन्मेघे वा विद्युतं न पश्येन्महामेघे वा मरीचीरिव पश्येत तदप्येवमेव विद्यात् । अथापि यत्र भूमि ज्वलन्तीमिव पश्येत तदप्येवमेव विद्यात् । इति प्रत्यक्षदर्शनानि । अथ स्वप्नाः। पुरुषं कृष्णं कृष्णदन्तं पश्यति स एनं हन्ति वराह एनं हन्ति मर्कट 20 एनमास्कन्दयत्याशु वायुरेनं प्रवहति सुवर्ण खादित्वापगिरति मध्वनाति बिसानि भंक्षयस्येकपुण्डरीकं धारयति खरैर्वराहैर्युक्तैर्याति कृष्णां धेनुं कृष्णवत्सां नलदमाली दक्षिणामुखो वाजयति । स यद्येतेषां किञ्चित्पश्येदुपोष्य पायसं स्थालीपार्क भ्रपपिस्वा रात्रीसूक्तेन प्रत्यूचं हुत्वान्येनान्नेन ब्राह्मणान्भोजयित्वा चरुं स्वयं प्रानीयात् ।
(3, 2, 4; pp. 135 ff) 23 III From ON:
नंदीतूरं पुण्णस्स दसणं संखपडहसदो य । भिंगारछत्तचामरधयप्पडागा पसत्थाई ॥ १०९ ॥ समणं संजयं दंतं सुमणं मोयगा दहिं।
मीणं घंटं पडागं च सिद्धमत्थं वियागरे ॥ ११० ॥ IV From MBh:
योऽरुन्धतीं न पश्येत दृष्टपूर्वी कदाचन । तथैव ध्रुवमित्याहुः पूर्णेन्दुं दीपमेव च ॥ ९ ॥
।
"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org