________________
महाकविश्रीरामचन्द्रसरिरचितं मयः-( सोरम्ताङमुच्चैःस्वरम् ) लङ्कां त्रिःसप्तकृत्वः प्रतिदिशमरयोऽरौत्मुरण्डीरदोषणः,
काण्डीरान् कांदिशीकानकृषत विषयान् लुण्टयामासुराश । गोष्ठे शरत्वमेवं पुनरसिकुहनाताण्डवैर्नर्तयन्तः,
कष्टं कष्टं हताः म्मः समजनि रजनीचारिवंशो निरंशः ॥२४॥ रावणः - ( सखेदम् ) दर्प संवृणु चन्द्रहास ! रभसः कोऽयं भ्रुवोर्धकुटी ?,
हेवाकं विजहीत विश्वविजितौ नाद्यापि किं बाहवः ? । तां लङ्कामरुधन् पुलीन्द्र-कपयस्त्रिःसप्तकृत्वः पति
रिम्मन्यभुजोन्मदिष्णुहृदयो यस्याः स्वयं रावणः ॥ २० ॥ ( पुनः सोपशमम् ) आर्य ! शान्तो भूत्वा नियोजय । किमावहामः । मय:मुच्यतां मैथिली सन्धिः सार्धमस्तु रघू वा। भवतु स्वस्ति लङ्कायै ज्ञातयः सुखमामताम् ॥ २६ ॥ रावणः- ( सरोपं विहम्य ) आर्य ! मुच्यतां मैथिली सन्धिः साई तेन रघृद्धवा ।। भवतु स्वस्ति लङ्कायै ज्ञातयः सुखमासताम् ॥ २७ ॥ मन्दोदरी-( सविनयम् ) अजउत्त ! जं तादो विष्णवेदि तं पडिवजसु ! रावणः -- देवि ! अनभिज्ञाऽसि महापुरुपव्रतस्य । इहाऽऽनीता सीता यदनुचितमेकं तदभवत्,
द्वितीयं यद् भर्जुन पुनरुपनीता वनजुषः । इदं तार्तीयीकं भवति पुररोधप्रतिभिया,
समयैतां सन्धि घटयति यदीशः पलभुजाम् ॥ २८ ॥ अपि च देवि!, खड्गबिम्बच्छलाद् यस्य स्वात्मैवाऽधिमृधं द्विषन् । निष्ठितारिः स संधत्ते रावणः किं वनेचरान् ? ॥ २० ॥ मारीचः- ( सरोषम् ) प्रत्यग्रयौवनभुजार्गलसाहसिक्य
कन्थाभिराभिरलमद्य पटच्चरीभिः ।
१) आर्यपुत्र ! यत् तातो विज्ञपयति तत् प्रतिपद्यताम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org