________________
महाकविश्रीरामचन्द्रसरिरचितं
( मन्दोदरी मन्दं मन्दं रोदिति ।) मारीचः--आर्य : माम्म विपीद , पुनरपि प्रकारान्तरेण विज्ञपयामः । मयः- ( सविनयम ) अस्मत्प्रार्थनया, कलङ्कभयतः, सन्यायरक्षाकृते,
धर्मध्वंसविमर्शनात, किमपरं ? शत्रोः प्रतापेक्षणात् । रक्षःसन्ततिराक्षसी जनकजां मुञ्च, प्रसादं कुरु,
भ्रातस्ते विहितोऽञ्जलिः, किमु नयस्येतां क्षयं बन्धुताम् ? ॥ १८॥ रावण :-( सरोप-सम्भ्रमम् ) अपात्रं शत्रूणां त्रिदशपुरवीरस्मयचय
व्ययातक्रीडासभिकतरवारिर्दशशिराः। खलूक्त्वा वैदेहीत्यजनमषडक्षीणमपरं, किमप्यायः कार्य दिशतु नयवाचालहृदयः ॥ १९ ॥
( पुनः सर्गम ) न मयों दैत्यो वा त्रिदश इति वा ज्ञातुमुचितो,
दशग्रीवस्तेजःप्रक्रति परमं ब्रह्म किमपि । तदेतस्मै हेलातुलितगुरुशैलाय शबरप्रतापग्रागल्भीप्रथनमखिलं मम्मनि हुतम् ॥ २० ॥
(नेपथ्ये । परोलक्षाः क्षुण्णा रजनिचरवीरैः कपिघटाः, __कनीयांसं शक्तिर्यमशरणमाधत्त शबरम्। निजामिच्छां म्लेच्छेऽप्रथयदथ वर्षीयसि शिखी,
प्रतापप्रागल्भी कटरि ! हरिजेतुर्विजयते ॥ २१ ॥ रावणः -- ( समाकर्ण्य सहर्ष विपादम् ) सुधासारैः सिञ्चन् श्रुतिकुवलयान्याभ्युदयिकै.
रकस्मादस्माकं तिलकयति शौर्य किमपि कः । हहा ! नीचैवृत्तिः सुरनगरलण्टाकमहसो,
दशग्रीवस्यायं वनचरजयः कः परिपणः ? ॥ २२ ॥ ( पुनर्विमृश्य सगेपम् । अरे ! कोप्यं दुरात्मा दशकन्धरप्रतापप्रशमिनीं शबरशक्तिधर्गमकथां प्रथितवान् । ( पुनर्विश्य ) हुँ ज्ञातम् । जल्पाकचक्रवालचक्रवर्ती चन्द्रः ।
सीता- ( समयम् ) हंने मालति ! किं नेदम् ।
१) कपिभटाः
। २) पनि मानि : क्रिमिदम ? ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org