SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ रघुविलासनाटकम् --पष्टोऽङ्कः । लक्ष्मणः - आर्यस्य शरीरे प्रयत्नो विधेयः । विभीषणः-( बिहम्य ) का प्रयत्नमाधास्यति ? । लक्ष्मणः - यूयम् । सुग्रीयः- एवमेतद् , यदि सर्वभक्षी भगवानाशुशुक्षणिः क्षुन्मान्द्यमनुभविष्यति । लक्ष्मणः- अस्तमेष्यति रकुलम् । विभीषणः - चिरं विजपते रघुकुलं विहाय राम - लक्ष्मणौ विभीषणसुग्रीवो च। लक्ष्मणः- हनूमन् ! तातस्य पादो दर्शय येन शिरसि निदधामि । रामः- ( सभयम् ) वत्स! क एप चेतनाव्यामोहः ? । कुतो नामात्र तातपादाः । लक्ष्मणः - आये एक साम्प्रतं मे तातः । रामः - हा भ्रातृवत्सल बान्धव ! क्वासि ? देहि मे प्रतिवचनम् । (इति मूर्च्छति ।) बिभीषणः-देव! समाश्वसिहि समाश्वसिहि । लक्ष्मणः - ( अपवार्य ) अमात्य ! व्यालुप्यते मे दृष्टिः। विमुञ्चति चेतना गात्राणि । जाम्बवान् - अस्तमितं तहिं कपिकुलम् । लक्ष्मणः-- नाऽऽकीर्णा दशकन्धरी पलभुजां पत्युः शितैः पत्रिभि दत्ता नापि विभीषणाय सुहृदे लङ्काधिपत्यस्थितिः । वदेही विरहाग्निमग्नमनसो नाऽऽयस्य सन्दर्शिता, जातं जन्म वृथा हहा ! रणधुराधौरेयदोष्णो मम ॥ ११ ॥ रामः- (चेतनामास्थाय ) अमात्य ! अस्मन्निमित्तं चितां कारय । जाम्बयान - देव ! अभिनवसूर्योदयादर्वाग् न प्राणितमपहरति शक्तिरिति किलतिह्यम् , ततः केयममङ्गलत्वग? | अपि नाम शक्तिनिःसारोपायः सम्पद्यते । (नेपथ्ये) तिष्ठ, को भवान् ?। अहं प्रतिचन्द्रनामा विद्याधरी रामचन्द्रं द्रष्टुमभिलपामि । विद्याधरो वा निशाचरो वेति कः प्रत्येति ? । सन्वरमपसर व्यूहद्वारात् । अनवसर इदानीमन्यप्रवेशस्य । लक्ष्मणः- हनूमन् ! उत्थापय माम् • उपनय कार्मुकम् , येन निशाचरकोलाहलं निवारयामि । पु. ना.८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002799
Book TitleRaghuvilasa Natakam
Original Sutra AuthorRamchandra Mahakavi
Author
PublisherBharatiya Vidya Bhavan
Publication Year1982
Total Pages102
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy