SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ ॥ अथाष्टमोऽङ्कः ॥ सारण:- ( सविषादम् ) ये सदा सरुजो ये च भृत्या भृत्यद्विषि प्रभौ । जीवितं मरणं तेषां मरणं जीवितं पुनः ॥ १ ॥ (नेपथ्ये ) 'परमत्थं मंतेसि | अंधाण दरिक्षण य परव्वसाणं च वाहिआणं च । जं चिरकालं जीयं तं खलु पावस्स माहप्पं ॥ २ ॥ ( ततः प्रविशति रावणो रथेन प्रहस्तप्रभृतिकश्च परिवारः । ) रावणः - ( समन्तादवलोक्य ) प्राचीनमञ्चति वियत् पृथुशोककोककान्ताकपोलपुलकौपयिकं दिनेशः । श्रान्ता इवास्ततटकुट्टिममाश्रयन्ते राजीवजी विततो हरिणाङ्कपादाः ॥ ३ ॥ प्रहस्तः – देव ! किमप्यद्भुतं वर्त्तते । तथाहि मनुजमात्रविजयेऽपि तर्जितव स्तोष्पतेर्लङ्कापतेः तुष्टं' रुष्ट' मुदासि' सत्वर' मवा' गुत्तान' मा हर्द मुग्धं रौद्र" मतन्द्रि" खेदि" विशदं" ताम्रं" विशालं" कृशम्" । स्फारव्रीड" महंयुतापरवशं हिंस्रं" कृपापक्ष्मलं चक्षुर्विंशति संख्यमेतदभवच्चित्रं विरुद्धस्थिति ॥ ४ ॥ रावणः - (सविषादावष्टम्भम् ) विजेतुर्जम्भारिं मनुजपृथुकस्य । पि विजये दृशो नानाभावान् दधति यदरिष्टं किमपि तत् । अरिष्टानि स्युर्वा कति न सुकृतानां प्रतिभवं परीपाकप्राप्ये जनकपतिपुत्रीपरिचये ॥ ५ ॥ [ राम-लक्ष्मणौ प्रति रावणः सावहेलम् - ] अरे म्लेच्छौ ! को वां जनकतनयाजानिर निशं विजिज्ञासुः सोऽहं द्रुतमथ भवन्तौ विवृणुताम् । दशास्यात् त्रस्यन्ती यमधिमनसं ध्यायति मुदा सदा सा वैदेही स हि कृतधियां द्रष्टुमुचितः ॥ ६ ॥ 1) परमार्थं मन्त्रयसि । अन्धानां दरिद्राणां च परवशानां च व्याधितानां च । यत् चिरकालं जीवितं तत् खलु पापस्य माहात्म्यम् ॥ २ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002798
Book TitleRaghuvilasa Natakoddharah
Original Sutra AuthorRamchandra Mahakavi
Author
PublisherBharatiya Vidya Bhavan
Publication Year1982
Total Pages62
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy