SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ रघुविलास - नाटकोद्धारः - सप्तमोऽङ्कः । सुरसमरसरस्वत्कर्णधारे कुमारे हरिजिति यदि वा श्रीकुम्भकर्णेऽभ्यमित्रे । पुनरमरवधूटीघोरहीरहेषा कवचनिचुलिताङ्गी गुप्तिरन्धम्भविष्णुः ॥ ३१ ॥ ह्यस्तने समरसंरम्भे कुमारः शक्रजित् कुम्भकर्णश्च वनेचर कपिभिर्नियम्य गृहीतौ । ( इति श्रवणानन्तरम् ) रावणः - (सखेदम् ) हुं शक्रः स जितो जितो धृतधृतः कैलासशैलोऽम्बरे क्रान्तं क्रान्तमिदं जगत् प्रतिभटप्रावासिकैर्वाहुभिः । येयं बन्धु-तनूजबन्धनकथा लङ्कापतेर्जीवतः कर्णेषु प्रथते किमेकमनयाऽगीतं न विस्फूर्जितम् ? ॥ ३२ ॥ ( पुनः साक्षेपम् ) यात्रां संवृणु देवि ! दुर्दमधुराधुर्यस्य लङ्कापतेवरस्याsसि सधर्मिणी करुणया किं बान्धवद्वेषिणि ? | ज्वालामांसलचन्द्रहासकुलिशव्यालीढकण्ठस्थला दुत्कृत्तस्य वनान्तचारिशिरसः सन्धिं विधातास्महे ॥ ३३ ॥ (पुनरूर्ध्वमवलोक्य साशङ्कम् ) शशि किमम्बरे दिविषदां स्थानार्थिनां ? मागधैः प्रेर्यन्ते किमभिक्रमार्थमधिकं रक्षश्चमूचारिणः ? । आश्वीयस्य च हास्तिकस्य च रजः काष्ठाः स्तृणीते कथं ? कस्मात् कावचिकान्यहम्प्रथिमिकां साङ्ग्रामिकीं बिभ्रति ? ॥ ३४ ॥ ( नेपथ्ये ) वीरास्त्रस्यत रे ! रणं सुरवधूनेत्रप्रियम्भावुकः स्कन्धाभोगभयङ्करो रघुपतिः सोऽयं स्वयं क्रामति । यद्वाणाशनिदक्षिणेर्मधर्मनी निष्ठेयूतरक्तारुणं ३७ भूयोऽपि ग्लेपयाञ्चकार मरुतस्तत् कौम्भकर्ण वपुः १ ॥ ३५ ॥ सीता - ( सहर्षम् ) 'तिअडे ! अञ्जउत्तवन्नणासवणेण चिरा निव्वाविदु म्हि | 1) त्रिजटे ! आर्यपुत्रवर्णन | श्रवणेन चिराद् निर्वापिताऽस्मि । १ समुद्रः । २ अयशः । ३ केशैश्च केशैश्च प्रहृत्य युद्धं वृत्तं केशाकेशि । ४ विक्रमार्थम् । ५ अश्वानां समूह आश्वीयम् । ६ दिश आच्छादयति । ७ कावचिकानां समूहाः । ८ अप्रियः प्रियो भवति । ९ “दक्षिर्मा तु सम्मृगो यो व्याधैर्दक्षिणे क्षतः " । १० नाडी । ११ निर्गत । १२ क्षयमनयत् । १३ वातान् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002798
Book TitleRaghuvilasa Natakoddharah
Original Sutra AuthorRamchandra Mahakavi
Author
PublisherBharatiya Vidya Bhavan
Publication Year1982
Total Pages62
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy