SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ ॥ अथ सप्तमोऽङ्कः ॥ (ततः प्रविशति रावणः सीता-त्रिजटे मालतीप्रभृतिकश्च परिवारः । ) रावण:दुष्कीतिर्नयलविनां निरुपमः कोऽपि स्तनाडम्बरो लोकः शोकपरः पुरस्य कटिरि ! स्फारा नितम्बस्थली । ज्ञातेयं जनता जहाति पुरतो वाचां सुधा सा मुधा __ धर्मध्वंसकृतामधोगतिरसून धिग् मे विना जानकीम् ॥ १॥ (विमृश्य ) त्रिजटे ! क्लेशकण्टकिलेऽपि जानकीसम्पर्कपर्वणि कथङ्कारमतितरामुत्कण्ठते दशकन्धरस्य चेतः १ । त्रिजटा-'भट्टा! सयणं विसमं हिअयं ससज्झसं संगमो विरलविरलो। अवरु चिअ को वि रसो तह वि हु पच्छन्नसुरयस्स ॥२॥ चन्द्रराशि:-( रावणं प्रति ) देव ! विशल्याकरस्पर्शेन निःशल्यवक्षा लक्ष्मणः समजनि । रावणः -(साक्षेपम् ) स्थेयान् कल्पय संकथामधिवपुः कोऽयं पृथुर्वेपथुः ? शक्तिलक्ष्मणवक्षसो निरगमन्नो रक्षसां वक्षसः। भूयासुर्जयिनश्चिरं सुरसमित्पौरोगवा बाहवो लकेन्द्रस्य पुनर्द्विषां दलयिता श्रीचन्द्रहासो मदम् ॥ ३॥ (नेपथ्ये) कृत्याकृत्यविचारसारविदुरोऽप्यामुष्मिकानैहिकान् प्रत्यूहान् कलयन्नपि स्वचरितैर्भूना विषीदन्नपि । किश्चित् प्रेम तदाऽऽविरैस्ति गहनं सा चेन्द्रियाणां स्थितिः काऽपि खैरचरी यतः श्लथयति न्यायस्य मुद्रां जनः ॥४॥ 1) भर्तः। शयनं विषमं हृदयं ससाध्वसं सङ्गमो विरलविरलः । अपर एव कोऽपि रसः तथापि खलु प्रच्छन्नसुरतस्य ।। २ ।। १ ज्ञातिकर्म । २ कम्पः । ३ सन्तु । ४ देवसमराध्यक्षाः, प्रचण्डा इति तात्पर्यम् । ५ प्रकटीभवति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002798
Book TitleRaghuvilasa Natakoddharah
Original Sutra AuthorRamchandra Mahakavi
Author
PublisherBharatiya Vidya Bhavan
Publication Year1982
Total Pages62
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy