SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ १४ रघुविलास नाटकोद्धारः - तृतीयोऽङ्कः । रामः-हा प्रिये वैदेहि ! सी हहा निर्निमित्तबन्धो परोपकारैकरसिक जटायो! क्कासि ? देहि मे प्रतिवचनम् । (- इति मूर्छति ।) [रावणस्य कृत्रिमतविराधवेषस्य वनितावेषधारिणं प्रहस्तं याचतो रामवाक्यम्-] न्यासप्रवासमधुना निरवद्यधान्नि, व्यालोक्य भास्करकुले प्रथमं कलङ्कम् । वीडावतो मम भवद्वनितापहाराद् भूना मतो जनकराजसुतापहारः ॥१६॥ विराधः-परमार्थतः सीतापहार एवायम् , न पत्रलेखापहारः। परव्यसनसङ्क्रान्तिदर्पणतलानि हि रघूणां चेतांसि । रामः- ( सखेदम् ) स्त्रीत्राणमात्रमपि यो न विभुर्विधातुं सोऽहं निहन्तुमहितान् किमलं भविष्णुः? । क्लीयं विचिन्त्य वसुधातलपालनायां माताऽपि केकयसुता खलु मामपास्थत् ॥ १७ ॥ [राम प्रति विद्याधरवाक्यम्-] कैलाशकम्पचणरावणदर्पसर्प___ संस्तम्भनप्रबलजाङ्गुलिकैकदोष्णः। श्रीवालिनः कपिपतेरनुजो जगत्सु विख्यातविक्रमगुणाभिजनः समस्ति ॥१८॥ रामः- ततः किम् । विद्याधरः- तस्य सुग्रीवनानो निदेशेन हनुमतः समीपं गत्वा प्रतिनिवृत्तेन मया चित्राङ्गदेन दृष्टः। रामः-- जानकीमपहरन् कोऽपि दृष्टः ? । विद्याधरः – 'हा रामभद्र ! हा लक्ष्मण !' इति प्रलपन्तीं जानकी रावणो अपहरन् दृष्टः। रामःराज्यश्रीगणिता तृणाय, विदितः क्लेशो न कान्तारभू, न ध्यातौ पितरौ, स्मृता न सु हृदो, नोत्कण्ठितं ज्ञातिषु । यत्प्रेमाब्धिविलग्नमनमनसा तद् ब्रह्म लीढं मया, रक्षस्ता रुदतीं जहार, कठिनः सोऽहं पुनः प्राणिमि ॥ १९ ॥ . १ समर्थः। २ कातरम्। ३ गृहम् । ४ जीवामि । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.002798
Book TitleRaghuvilasa Natakoddharah
Original Sutra AuthorRamchandra Mahakavi
Author
PublisherBharatiya Vidya Bhavan
Publication Year1982
Total Pages62
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy