SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ रघुविलास नाटकोद्धारः-द्वितीयोऽङ्कः । जनिरजनि विजिष्णो रोदसी यस्य सार्ध हरिहयहरिणाक्षीपत्रवल्लीव्ययेन ॥ १७ ॥ रामः- (वैनतेयं प्रति ) जम्भारिं दशकन्धरो दशमुखीवैरूप्यवीक्षागलद्__ दम्भोलिस्मरणं रणे यदजयत् किं नाम तत् कौतुकम् ? । आश्चर्यानपहार्यधैर्यमनसः सङ्ग्रामशिक्षाचणस्थामानः पुनरुन्मदिष्णुहृदयैरिक्ष्वाकवो दुर्जयाः ॥१८॥ (नेपथ्ये) नीरन्ध्र परितश्चमूकरटिभिस्त्रिर्वेष्ट्यतां दण्डका शम्बुप्राणहरस्तरं तरुमभि म्लेच्छः समालोक्यताम् । जीवग्राहमयं वनेचरपशुाह्यो भवद्भिः स्वयं सेनान्यस्तदिदं समादिशति वः पाताललङ्कापतिः ॥ १९ ॥ रावणः-(वैनतेयं प्रति ) आकर्षन्ती वचनरचनावागुराभिः प्रसह्य प्राणान् धैर्य भुजवन(बल)मदं स्थाम सत्त्वं श्रियं च । हग्भ्यां शल्यं हृदि निदधती पाटलापाटलाभ्यां वैदेही नः कथय किमियं कालरात्रिः ? प्रिया वा ? ॥२०॥ [रामवाक्यं वनितावेषधारिणो भयभीतस्य प्रहस्तं( स्तस्य )प्रति-] उत्पातपावकतरङ्गपिशङ्गधारा निर्दग्धदुर्द्धरविरोधिशिरोधिबन्धः।। हासं ददद् दिविषदां दशकन्धरस्य कण्ठावीं (वली) खलु लविष्यति सूर्यहासः ॥ २१ ॥ रावणः- ( समाकर्ण्य सरोषोपशमम् ) दोर्विक्रमेण दशकन्धरमाक्षिपन्तं रे रे भुजः! सहत किं नरकीटमेनम् ? । ज्ञातं विदेहतनयापरिरम्भकेलि प्रत्याशया किमपि साम्प्रतमाकुलाः स्थः ॥२२॥ १ हठात् । २ मनोऽवष्टम्भलक्षणम् । ३ यस्यां रात्रौ यमः प्रभवति सा कालरात्रिः । ४ पिङ्गल । ५ दुर्दान्तशत्रुग्रीवा। ६ प्रमोदम् । ७ देवानाम् , देववैरिवधात् । रघु० ना० २ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002798
Book TitleRaghuvilasa Natakoddharah
Original Sutra AuthorRamchandra Mahakavi
Author
PublisherBharatiya Vidya Bhavan
Publication Year1982
Total Pages62
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy