SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ रघुविलास नाटकोद्धारः - प्रथमोऽङ्कः । जिह्वे ! यतख निरवद्यचरित्रपात्रं पुत्रं प्रवासयितुमेष विधेर्नियोगः ॥ ११ ॥ राजा - ( आत्मानं प्रति सवाष्पम् ) ऋते सप्ताम्भोधेः प्लवनविधुरं कल्पदहनाद् विना नानाप्रेङ्खत्प्रलयपवमानव्यतिकरम् । क्षिपन् वत्सं रामं वनभुवि हतोऽयं दशरथो रघूणां पन्धानं न चरति न च प्राकृतनृणाम् ॥ १२ ॥ स्त्रीवाग्भर्व्यपसार्य राज्यसमयान्निदोषमूर्जखलं पुत्रं ज्येष्ठमपास्तवान् दशरथः कान्तारवारांनिधौ । विश्वेषां जगतां स्तुतेः पदमसौ तत्रापि रामो हहा ! केयं शाश्वतिकी प्रशस्तिर यशः प्रारोह भूर्मय्यभूत् १ ॥ १३ ॥ राजा - (सखेदम् ) आः प्राणाः ! पुरतोऽप्यनुं दशरथं यूयं ध्रुवं हास्यथ, यातेने भुवनेऽत्र को नु पुरुषो ब्रूत स्थिरायुः स्थितिम् ? । तद् वत्सस्य गुणाम्बुधेर्वनमनु प्रस्थान वार्त्ताश्रुतेः पूर्व चे विजहीथ हन्त ! भवति श्रेयस्तरं वः सदा ॥ १४ ॥ (नेपथ्ये ) सत्यं रघुपतेर्भरतस्य राज्यं मातुश्च केकयभुवः परमप्रमोदम । मां काननाय दिशता जगती हितेन तातेन कर्म किमु नाद्य कृतं यशस्यम् ? ॥ १५ ॥ श्रियं यः सन्त्यज्य श्रयति वनवासं पितृगिरा स रामो वा लोकस्तवनवचसामस्तु विषयः । सुमित्रा पुत्रो वा गुरुजन निदेशादपि विना निसर्गप्रीत्यैव व्रजति मुदितो राममनु यः ॥ १६ ॥ पुना राजा - ( अमात्यं प्रति ) वैमयोऽप्यकृत तदयं लक्ष्मणो रामभद्रे काकुत्स्थानां कुलमपेतुलं येन जातं जगत्सु । १ पश्चादपि । Jain Education International २ त्यक्ष्यथ । ३ प्राप्तवान् । ४ अपरमातृकः । ५ अपगता तुला सादृश्यं यस्य तत् । For Private & Personal Use Only www.jainelibrary.org
SR No.002798
Book TitleRaghuvilasa Natakoddharah
Original Sutra AuthorRamchandra Mahakavi
Author
PublisherBharatiya Vidya Bhavan
Publication Year1982
Total Pages62
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy