________________
६८
मत्रिकर्मचन्द्रवंशावलीप्रबन्ध ।
[ ४२४ - ४३० व्याख्या- एवममुना प्रकारेण, दिग्विजयं कृत्वा विधाय, तथा बलाद् हठाद् , वैरिकुलं शत्रुवृन्दं जित्वा, श्रीमल्लाभपुरे प्रभुः साहिरविशत् प्रविवेश । किम्भूते ? पोरैर्नागरिकैः कृता शोभा तोरणादिलक्षणा यस्मिन् तत् तस्मिन् पौरकृतशोभे । बलाद्धार्थेऽव्ययम् ॥ ४२३
___ गुरवोऽपि समाजग्मुः सम्मुखं विबुधान्विताः।
दत्ताशिषा प्रभोः प्रीतिं जनयन्तः पदे पदे ॥ ४२४ व्याख्या- गुरवोऽपि श्रीजिनचन्द्रसूरयः, विबुधैः पण्डितैः श्रीजयसोम-गुणविनय-रत्ननिधान-समयसुन्दराधैरन्विताः सहिताः, सम्मुखमभिमुखं समाजग्मुः समेताः । किं कुर्वन्तो गुरवः ? दत्ता या आशीधर्मलाभेतिलक्षणा तया दत्ताशिषा, पदे पदे स्थाने स्थाने प्रीतिमानन्दं जनयन्त उत्पादयन्तः ॥ ४२४
__ अन्यदा साहिना धर्मगोष्टीव्यतिकरे मुदा ।
वादिता गुरवो नूनं जिनचन्द्रयतीश्वराः॥ ४२५ व्याख्या-अन्यदाऽन्यस्मिन्नवसरे, साहिनाऽकबरेण, धर्मगोष्ठ्या धर्मसंलापस्य यो व्यतिकरो व्यतिकीर्णता तस्मिन् धर्मगोष्ठीव्यतिकरे धर्मगोष्ठीप्रस्ताव इत्यर्थः । मुदा हर्षेण, नूनं निश्चितं जिनचन्द्रयतीश्वरा गुरवो वादिताः शब्दिताः ॥ ४२५
तेनोक्तं दर्शनं कापि युष्मदर्शनसन्निभम् ।
निभनिर्मुक्तमायुक्तं नैवास्माभिर्निरीक्षितम् ॥ ४२६ व्याख्या-तेन साहिनोक्तम् - हे गुरो। युष्माकं दर्शनं धर्मस्तत्सन्निभं तत्सदृशं दर्शनं धर्मः कापि जगति नैव निरीक्षितमवलोकितम् । किम्भूतं दर्शनम् ? निभं व्याजस्तेन निर्मुक्तं रहितं निभनिर्मुक्तम् । पुनः किम्भूतम् ? आयुक्तमहिंसायां व्यापृतम् । 'दर्शनं दर्पणे धर्मोपलब्ध्योर्बुद्धिशास्त्रयोः । स्वमलोचनयोश्च' - इत्यनेकार्थः ॥ ४२६
मानसिंहः सहास्माभिर्निरुपानकपादगः।
यां व्यथां सुमनाः सेहे तां को वक्तुमपि प्रभुः ? ॥ ४२७ व्याख्या-हे गुरो। अस्माभिः सह मानसिंहः सुमनाः प्राज्ञः, निरुपानत्काभ्यां पादत्राणरहिताभ्यां पादाभ्यां गच्छतीति निरुपानत्कपादगः, यां व्यथां पीडां सेहे ममर्ष, तां व्यथां वक्तुमपि कथयितुमपि, कः प्रभुः कः समर्थः ॥ ४२७
अस्माभिर्बहुधोक्तोऽपि निजाचारचिकीर्षया।
योऽङ्गीकृतनिजाचारप्रतिज्ञा नात्यवाहयत् ॥ ४२८ व्याख्या-हे गुरो ! अस्माभिर्बहुधा बहुभिः प्रकारैरुक्तोऽपि भणितोऽपि, निजाचारस्य आत्मीयचरित्रस्य, अङ्गीकृता स्वीकृता या प्रतिज्ञा सङ्गरोऽभ्युपगमस्तां न अत्यवाहयत् न अतिचक्रमे । कया? निजाचारचिकीर्षया आत्मीयधर्मानुष्ठानपालनेच्छया ॥ ४२८
काश्मीरं वर्त्म यः शैलशिलाशकलसङ्कुलम् ।
पद्भ्यामेवातिचक्रमे गम्यं यन्न मनोरथैः ॥ ४२९ व्याख्या-हे गुरो! यो मानसिंहः कश्मीराणामिदं काश्मीरं वर्त्म मार्गम् , पद्भ्यां चरणाभ्यामेव अतिचक्रमे * लङ्घयति स्म । किम्भूतं वर्त्म ? शैलस्य गिरेर्यानि शिलाशकलान्युपलखण्डानि तैः सङ्कलं व्याप्तम्। पुनः किम्भूतम् ? यन्मनोरथैराशाभिर्न गम्यं न लच्यम् । यत्र रथैरपि न गन्तुं शक्यते तत्र अनेन गतमिति च्छायार्थः ॥ ४२९
क्रियातुष्टैरतोऽस्माभिर्निरीहस्यान्यवस्तुनि ।
कश्मीरेषु ददे मीनाभयदानं समीहितम् ॥ ४३० व्याख्या-हे गुरो! अतो हेतोरस्माभिः, क्रिया साध्वाचारस्तया तुष्टैहृष्टैः, अन्यवस्तुनि पक्ष्मवत्यादौ निरीहस्य निःस्पृहस्य अस्य श्रीमानसिंहस्य, कश्मीरेषु समीहितमेतदिष्टं मीनाभयदानं मीनानां मत्स्यानामभयदानं ददे दत्तम् । कश्मीरेषु सरोमत्स्या एतदुक्त्या अस्माभी रक्षिता इत्यर्थः ॥ ४३०
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only