________________
४१८-४२३ ]
पाठक श्रीजयसोमविरचित
श्री साहिनेत्रपीयूषस्पर्शनादमरो भवन् ।
स्वामिद्रोही निषेध्योऽयं मत्वेति विधिना हतः ॥ ४१८
5
व्याख्या - अयं खामिने साहये द्रुह्यतीत्येवंशील: स्वामिद्रोही, श्री साहिनेत्रयोर्यत्पीयूषममृतं तस्य स्पर्शनादमरोऽवध्यो भवन् निषेध्यो वार्य इति मत्वा अवबुध्य, विधिना दैवेन हतः । साहिनेत्रपीयूषस्य स्पर्शनेन यदाऽसावमरो भवति तदा वयो न भवति, अयं च वध्यः स्वामिद्रोहित्वात् ततश्च साहिदृष्टिसुधावृष्टियोगात् तस्यामरत्वं भवन् निषेध्य विधिना पूर्वमेव निजघ्ने । न म्रियत इत्यमरः । अमरशब्दश्चिरस्थायित्वादिलक्षणया दैवेषु यौगिको रूढश्च । पीयूषस्पर्शने ह्यमरो देवो भवतीति च्छायार्थः । साहिदृष्टौ हि न कोऽपि गवादिम्रियते, अयं पुनर्मानवः कथं म्रियतामिति विमृश्य विधिना साहेरदर्शन एव मारित इति भावार्थः ॥ ४१८
पुनरप्यत्रैव हेत्वन्तरमाह -
तथात्वे वा निजा सृष्टिः कृतनाशाकृतागमात् ।
निन्द्या मा भूदिति ध्वस्तो वैरी प्राग्विधिना किमु ? ॥ ४१९
व्याख्या – वा अथवा, तथात्व इति कोऽर्थः ? यदि वैर्येवमेत्र रक्ष्यते, साहिनाऽपि न मार्यते कृपालुत्वात्, मयाऽपि न इन्यते, तदा निजा सृष्टिर्निर्माणम्, कृतस्य पापस्य नाशोऽकृतस्य पुण्यस्याऽऽगमस्तस्मान्निन्द्या कुत्सनीया भवेत् सा निन्द्या मा भूत्, माऽस्तु इति हेतोर्वैरी, विधिना प्राकू साहेरागमनात् पूर्वमेव, किमु इति वितर्के, ध्वस्तो हतः । तथा च तद्विनाशे सृष्टौ कृतनाशोऽपि न भवत्यकृतस्य आगमोऽपि न स्यात्, ततश्च निन्द्यत्वमपि सृष्टेर्न । माङ्योगे अद्यतन्या अप्याशी:- " प्रेरणार्थता वक्तव्या ॥ ४१९
६७
नेत्रक्षीराम्बुधौ साहेरथवा स्तः सुधा विषम् ।
सुमनोभिः सुधा दधे विषमास्त्रद्विषा विषम् ॥ ४२०
व्याख्या - अथवाशब्द उपायस्मरणगर्भितपक्षान्तरद्योतकः । साहेरकबरस्य नेत्रक्षी राम्बुधौ दृष्टिक्षीरसमुद्रे, सुधाऽमृतं विषं च क्ष्वेडश्चेत्यध्याहियते स्तो विद्येते । तत्र सुमनोभिः प्राज्ञैः, सुधा पीयूषं दधे धृतम् । विषमाण्युप्राण्यस्त्राणि यस्यैवंविधो 20 यो द्विड् वैरी तेन विषमास्त्रद्विषा विषं दध्रे । अत एव साहिदृष्ट्या स ममारेति भावः । क्षीराम्बुधौ हि सुधा सुमनोभिर्देवैर्दध्रे, विषमात्रः कामस्तस्य द्विषेश्वरेण विषं कण्ठे दध इति च्छायार्थः । 'सुमनाः प्राज्ञदेवयोः' इत्यनेकार्थः ॥ ४२०
Jain Education International
सुधैवास्त्यथवा नेत्रे सा शत्रौ तु विषायते ।
सिताsपि जायते येन कटुका पित्तदोषतः ॥ ४२१
व्याख्या - अथवेति पक्षान्तरे, साहिनेत्रे सुधैव अस्ति । सा सुधा शत्रौ तु वैरिणि तु विषमिव आचरति विषायते 25 विषीभवतीत्यर्थः । एतदेव दृष्टान्तद्वारा द्रढयन्नाह - येन कारणेन सिताऽपि शर्कराऽपि पित्तदोषतः पित्तवैगुण्यात्, कटुका क्षारा जायते । सिता हि मधुरा भवति परं पित्तयोगे सा कटुका सम्पद्यते । तथा साहिदृष्टौ सुधैव आस्ते परं विद्विषो विषमिवाऽभवत् ॥ ४२१
देवा एव मनःशस्त्रा इति गीरनृतीकृता ।
नराशोsपि यजातो मनोऽस्त्रः साहिरात्मना ॥ ४२२
व्याख्या - येन साहिना, देवा एव मन एव शस्त्रं येषां ते मनःशस्त्रा इति गीः - वाणी अनृतीकृता असत्यीकृता । यद् यस्माद्धेतोः, नराधीशोऽपि साहिरात्मना स्वयं मनोऽस्रो जातः । मनसा व्यचिन्ति । यदसौ दूरीभवतु तावतैव वैरिघातो जात इति । देवा एव मनोऽस्ना इतिवाक्यमप्रमाणितमित्यर्थः ॥ ४२२
एवं दिग्विजयं कृत्वा जित्वा वैरिकुलं बलात् । श्रीमल्लाभपुरे पौरकृतशोभेऽविशत् प्रभुः ॥ ४२३
10
For Private & Personal Use Only
20
35
www.jainelibrary.org