________________
10
15
20
25
20
२८
मत्रिकर्मचन्द्रवंशावली प्रबन्ध ।
जेतृसिंहो द्विषां जेता समतापः प्रतापसीः । रत्नसिंहो महीरनं तेजसीस्तेजसा रविः ॥ १५५
व्याख्या - जेतृसिंहः, किम्भूतः । द्विषां वैरिणां जेता पराभवकृत्, तथा सप्रतापः सतेजाः प्रतापसीस्तथा महीरत्नं वसुधाश्रेष्ठो रत्नसिंहस्तथा तेजसा प्रतापेन रविः सूर्यसमस्तेजसीः ॥ १५५
वैरिसिंहः कृष्णनामा रूपसी - रामनामकौ ।
नेतसी - कर्मसी - सूर्यमल्लाद्याः कर्णसूनवः ॥ १५६
व्याख्या - सुगमा । पूर्वश्लोकोक्ता एते च कर्णस्य पदैकदेशे पदसमुदायोपचारादिति लूणकर्णस्य सूनवः पुत्राः कर्णसूनवः ॥ १५६
जेतृसिंहकुमारस्तु कुमारसमविक्रमः ।
राज्ञीलालालसत्कुक्षिसरसीहंससोदरः ॥ १५७
व्याख्या - तेषां कुमाराणां मध्ये जेतृसिंहकुमारस्तु, कुमारः कार्त्तिकेयस्तत्समस्तत्तुल्यो विक्रमः पराक्रमो यस्य स कुमारसमविक्रम आसीदिति गम्यते । किम्भूतः ? राज्ञीलालालसत्कुक्षिसरस्यां हंससोदरो राजहंससगर्भो राज्ञीलालालसत्कुक्षिसरसीहंससोदरः ।। १५७
कर्मसिंहो महामन्त्री लूणकर्णस्य संसदि । शोभाविधायको मनवैभवान्निहताहितः ॥ १५८
Jain Education International
व्याख्या - लूणकर्णस्य संसदि सभायां शोभाविधायको विभूषाकर्ता, कर्मसिंहो महामन्त्री बभूवेत्युपस्कारः । किम्भूतः ? मन्त्रो रहस्यालोचनं स एव वैभवम् । विभोर्भावो वैभवं प्रभुता । तस्मान्निहता मारिता अहिता वैरिणो न निहताहितः । अन्योऽपि प्रभुतया शत्रून् हन्त्यनेन तु मन्त्रेणैव सर्वेऽप्यरयो नाशं नीता इत्यर्थः ॥ १५८
1
[ १५५ - १०१
साम्राज्यतिलकं येन लूणकर्णस्य कारितम् ।
सत्यसन्धेन समुद्ध्या भूमिपालाच्छिशोरपि ॥ १५९
व्याख्या - येन कर्मसिंहमन्त्रिणा, सद्बुद्ध्या प्रधानधिया, शिशोरपि लघुवयसोऽपि लूणकर्णस्य, साम्राज्यतिलकं साम्राज्यं समस्तसामन्तानुशासनं तस्य तिलकं विशेषकं भूमिपालाद् विक्रमनृपतेः कारितम् । किम्भूतेन ? सत्यसन्धेनाऽवितथप्रतिज्ञेन ॥ १५९
विधुवारिधिभूतेन्दुप्रमिते वत्सरे सुधीः ।
सदुर्गं नगरं मन्त्री निर्ममे विक्रमाह्वया ॥ १६०
व्याख्या - मन्त्री कर्मसिंहः, सुधीः सद्बुद्धिः विधुवारिधिभूतेन्दु (१५४१) प्रमिते वत्सरे वर्षे, विक्रमाह्वया विक्रमनाम्ना सदुर्ग कोट्टसहितं नगरं विक्रमनगरमिति नामकं, निर्ममे निर्मितवान्निवेशयामासेत्यर्थः ॥ १६०
नान्यत्क्षेत्रमतो जैनदर्शने गृहिणामिति ।
गुरोर्गिरा नमश्चैत्यमचीकरदयं सुधीः ॥ १६१
व्याख्या - अतोऽस्माच्चैत्यान्नान्यत्क्षेत्रं धनबीजवपनभूमिः, जैनदर्शने गृहिणां गृहस्थानामस्ति विद्यत इति, गुरोर्गिरा बचसा, नमेर्नमिनाथस्य, चैत्यं विहारमयं सुधीः कर्मसिंहोऽचीकरत् कारयति स्म । अचीकरदिति 'लुङ्घ्रिः णिश्रीति चणेर - निटीति णिलोपः, णौ चड्युपधाया ह्रखः, ङित्त्वं चङीति द्वित्वं सन्वलघुनीति सन्वद्भावे सन्यत इतीत्वं दीर्घो लधोरिति दीर्घः' इति प्रसादे ॥ १६१
For Private & Personal Use Only
www.jainelibrary.org