________________
10
1.6
20
25
30
२६
मनिकर्म चन्द्रवंशावलीप्रबन्ध |
श्रीदेवराजनगरे यः स्तूपे कुशलसूरसुगुरूणाम् । विक्रमपुरतो यात्रां विदधे परिवारपरिकरितः ॥ १३८
व्याख्या - यो वत्सराजः, परिवारपरिकरितः परिच्छदसहितः सन् श्रीदेवराजनगरे कुशलसूरिगुरूणां श्रीजिनकुशलसूरीणां स्तूपे यात्रां विदधे चकार । 'उच्छ्रितो मृदादिविकारः स्तूपः ॥ १३८ बहुमानितोऽधिकं यो मौलत्राणाधिपेन बहुवारान् । सतुरगवरपश्चाङ्गप्रसाददानेन तुष्टेन ॥ १३९
व्याख्या - यो वत्सराजः, मौलत्राणाधिपेन मौलत्राणस्वामिना साहिना, तुष्टेन हृष्टेन सता सतुरगवरं प्रधानाश्वसहितं यत् पञ्चाङ्गप्रसाददानं लोकप्रसिद्धं तेन, बहुवारान् बह्वीर्वेला, अधिकमतिशयेन, बहुमानितः सत्कृतः ॥ १३९ आतपत्रं समासाद्य तस्मादेवावनीपतेः ।
निजेशस्य मुदा प्रादाद्, राज्यचिह्नमनुत्तरम् ॥ १४०
व्याख्या - तस्मादेव मौलत्राणाधिपतेरेव, आतपत्रं छत्रं, समासाद्य प्राप्य, निजेशस्य आत्मीयखामिनो विक्रमभूपतेः, मुदा हर्षेण, अनुत्तरमुत्कृष्टं, राज्यचिह्नं राज्यलक्ष्म, प्रादाद् ददौ ॥ १४०
दसू - तेजाभिधौ भुंणानामकश्च सुतास्त्रयः ।
देवराजस्य हंसस्तु हंसवद् वारिगोऽभवत् ॥ १४१
व्याख्या - देवराजस्य देवराजमन्त्रिणो, दस्-तेजाभिधौ दसू-तेजानामकौ, भुंणानामकश्च त्रयः सुताः । इंसस्तु हंसराजस्तु, हंसवद् राजहंसवद्, वारिगो वारिणि पानीये गच्छतीति वारिगोऽभवत् । राजहंसोऽपि वारिगः स्यादसावपि वारिगो जातः, लघुत्रया एव जले ममज्जेत्यर्थः ॥ १४१
नीम्बा - जोगा-रूपाः कर्णश्चेत्यादयो दसुपुत्राः । नीम्बासुतो विवेकी सञ्जातः खेतसीनामा ॥ १४२
व्याख्या - सुगमा ॥ १४२
Jain Education International
[ १३८ - १४६
पञ्चानन-शिवराजप्रमुखा जोगासुतास्ततः पञ्च । यैरद्याप्यादिमजिनचैत्ये क्रियते ध्वजारोपः ॥ १४३
व्याख्या - स्पष्टा । नवरं यैर्जोगासुतैरथाप्यादिमजिनचैत्ये श्रीआदीश्वरविहारे, ध्वजारोपश्चैव्यशिरसि पताकारोपःक्रियते ॥ १४३
श्रीवन्तो जयवन्तश्च मन्त्रिरूपातनूरुहौ ।
श्रीपालः कर्णसूर्जज्ञे श्रीपालस्य सुताः पुनः ॥ १४४
व्याख्या – मन्त्रिरूपातनूरुहौ मत्रिरूपापुत्रौ, श्रीवन्तो जयवन्तश्च जातौ । कर्णसूः कर्णपुत्रः श्रीपालो जज्ञे बभूव । श्रीपालस्य पुनः सुता अमी ॥ १४४
रायमल्ल-सदारङ्गादयस्तेजासुतास्त्रयः ।
सुताः श्रीवन्तसम्भूताः पद्मसी उदद्यादयः ॥ १४५
व्याख्या - आदिशब्दात् सिंहो रिणमल्लश्च तेजासुतास्त्रयोऽमी हेमराज - धनराज - माण्डणाख्याः, अन्त्यादि - शब्दान्मानाख्यो ग्राह्यः । सन्ध्यकरणं तु वक्तुर्विवक्षाया अभावाद् । विवक्षितो हि सन्धिर्भवतीत्युक्तेः ॥ १४५ वत्सपुत्राः पवित्राङ्गा वाल्हादेवीतनूरुहाः । चत्वारश्चतुराश्चश्चद्विचाराचारबन्धुराः ॥ १४६
For Private & Personal Use Only
www.jainelibrary.org