________________
२१
१०७-११३]
पाठकश्रीजयसोमविरचित खप्रबलबलमुपादाय, वैरिनिर्यातनाय छलमवलोक्य, योधाधीशश्चित्रकूटे गत इत्यर्थः । 'साहसं तु दमे दुष्करकर्मणि, अविमृश्य कृतौ धार्ये' इत्यनेकार्थः ॥ १०६
विजित्य रानकाधीशं मेदपाटं निहत्य च।।
जयमासाद्य सद्योधो योधो योधपुरे ययौ ॥१०७ व्याख्या-योधो योधाख्यो नृपो, रानकाधीशं कुम्भं विजित्य, च पुनर्मेदपार्ट मेदपाटाख्यदेशं निहत्य हत्वा, । जयं विजयमासाद्य प्राप्य, सद्योधः सत्सुभटपरिवृतो योधपुरे ययौ जगाम ॥ १०७
गतां भूमिं समासाद्य मुदितो मेदिनीपतिः।
अनीनयत् पुरा मुक्तावरोधं जङ्गलादसौ ॥ १०८ व्याख्या- असौ मेदिनीपतिर्नृपो योधो, गतां वैरिकरप्राप्तां भूमि, समासाद्य लब्ध्वा, मुदितो दृष्टो, जङ्गलात् पुरा पूर्व मुक्तः प्रेषितो जङ्गलं प्रति योऽवरोधोऽन्तःपुरं तमनीनयदानाययति स्म ॥ १०८
विक्रम-चीदानामकजातयुता साङ्खलाह्वगोत्रीया ।
नवरङ्गदेऽभिधाना जज्ञे राज्ञः पुरा पत्नी ॥ १०९ व्याख्या-राज्ञो योधस्य, नवरङ्गदेऽभिधाना नवरङ्गदेनाम्नी पत्नी भार्या, पुरा पूर्व जज्ञे बभूव । किम्भूता ? विक्रमवीदानामको यौ जातौ पुत्रौ ताभ्यां युता सहिता । पुनः किम्भूता ? साङ्खलाहगोत्रीया साङ्खलाख्यगोत्रोत्पन्ना ॥ १०९
नीम्बा-सूजा-सातलनामसुतत्रययुता महाराज्ञी। जसमादेवीनाम्नी राज्ञो जीवस्य सर्वखम् ॥ ११० नीम्बाख्ये सजाते दैवनियोगात् सुते कथाशेषे । जातिखभावदोषाजातामर्षा सपत्नीषु ॥ १११ विक्रमनानि सपत्नीसुते सति स्वात्मजे कथं राज्यम् ।
भावीति विभाव्याऽऽत्मनि विजने राजानमाचष्ट ॥ ११२ - त्रिभिर्विशेषकम् ।" व्याख्या-राज्ञो योधस्य, जसमादेवीनाम्नी हाडीगोत्रीया महाराज्ञी । विजने रहसि, इति वक्ष्यमाणमात्मनि हृदि विभाव्य विचार्य, राजानं योधमाचष्ट कथयामास । इतीति किं ? विक्रमनाम्नि सपन्या नवरङ्गदेनाम्न्याः सुते सति, कथं वात्मजे खपुत्रं राज्यं भावि ? । किम्भूता ? जीवस्य नृपात्मनः सर्वस्खं सर्वधनं, तस्य तदधिकं न किमप्यस्तीत्यर्थः । पुनः किम्भूता ? नीम्बा-सूजा-सातलनामयुत् सुतत्रयं तेन युताऽन्विता । पुनः किम्भूता ? दैवनियोगाद् विधेर्वशात् , नीम्बाख्ये सुते कुमारे, कथाशेषे नामशेषे सञ्जाते सति, मृते सतीत्यर्थः । जातेः स्त्रीजातेयः स्वभाव आत्मीया प्रकृतिर्यदन्यस्या असहनं स एव दोषो- 25 ऽगुणस्तस्माज्जातिवभावदोषात् । सपत्नीषु पतेरन्यासु स्त्रीषु जातोऽमर्षो यस्याः सा जातामर्षा । सपत्नीछिद्रान्वेषणपरेत्यर्थः । यतः-वरं रङ्ककलत्रत्वं वरं वैधव्यवेदना । वरमरण्यवासो वा मा सपत्याः पराभवः ॥ १
वरं गेहत्यागो वरमुरुविरागो भवसुखे, वरं वेडग्रासो वरमभिनिवासो वनभुवि । वरं कण्ठे पाशो वरमखिलनाशो मृगदृशां, न तु प्रेयान् दृष्टः कथमपि सपत्नीपरवशः ॥ २ भौमे मङ्गलनाम विष्टिकरणे भद्रा कणानां क्षये, वृद्धिः शीतलिकाऽतितीव्रपिटके राजा रजःपर्वणि।
मिष्टाख्या लवणे विषे मधुरता जामिः सपत्यां पुनः, पात्रत्वं च पणाङ्गनासु विदितं नाम्ना परं नाऽर्थतः ।। ३ क्रोधाज्जातो जिगीषोत्साहयुक्तो गुणोऽमर्षः ॥ ११२
ततो निजात्मजं जायामायया मोहितोऽधिपः। विक्रमं जगले मोक्तुं समाहूयेदमुक्तवान् ॥ ११३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org