________________
मह सरोस-सेयरिसण-सचवियं कररुहावली-जुयलं । हिरणकस-वियडोरत्थलैंहि-दल-गन्भिणं हरिणो ॥१ तं णेमह जस्स तइया तैइय-वयं तिहुयणं तुलंतस्स ।
सायारमणायारे अप्पणमप्पं चिय णिसणं ॥२ १) णमह - हरेर्नारायणस्य कररुहावलीजुअलं उभयकरनखश्रेणिं नमत नमस्कुरुतेति ५ संबन्धः । नमस्करणीयस्य सर्वपूज्यत्वात् चतुर्दशभवनजना इत्यादिकर्तृपदमनुक्तमपि गम्यम् । किंविशिष्टं कररुहावलीजुयलं । सरोससुयरिसणसच्चवियं सरोषोऽन्तःप्ररूढकोपो यः सुदर्शनश्चक्र तेन सच्चवियं दृष्टम् । ' दृशो नियच्छापेच्छावयच्छावयज्झवजसञ्चवदेक्खोअक्खावयक्खावयग्घुपुलोअपुलअनिआवआसपासाः' [हैम०८-४-१८१] इति प्राकृतव्याकरणसूत्रत्वात् सच्चवियं । तत्कार्यवधस्य नखपंक्त्यैव साधितत्वाच्चक्रस्य सविशेषपोषरोषो दर्शनमात्रे चावशिष्टम् । नन्वायुधा-" नामचेतनत्वात् पुरुषप्रेर्यतयैव कार्यकारित्वं रोषदर्शनं च प्राणिधर्मस्तत्कथमिदम् । मैवं वोचः । परमपुरुषायुधानामपि देवताधिष्ठितत्वाच्चेतनावत्त्वं व्यक्तमेव । अथवा लक्षणशब्दा अमी मञ्चाः कोशन्तीत्यादिवत्पुरुषेऽध्यारोप्यन्ते । पुनर्विशिनष्टि । हिरणक इति । हिरण्यकशिपुर्दानवेन्द्रस्तस्य विकटं विपुलं यदुरो वक्षस्तदेव स्थलमिव स्थलं निचितरूपं तत्र यान्यस्थीनि तेषां दलानि खण्डानि तैर्गर्भितं संपृक्तं संमिलितम् इत्यर्थः । गर्भितमिति गर्भितातिमुक्तके णः' [हैम० ८-१-२०८] १५ इति प्राकृतलक्षणसूत्रेण तस्य णत्वम् ॥ ननु शौर्यौदार्यगाम्भीर्यधैर्यादिवर्यगुणग्रामवर्णनमपास्य किमर्थमादौ नखा एव नमस्कृता इति चेन्न । दैवतवरानुभावात् स्त्रीपुंसाभ्यामवध्यस्य तस्य नरसिंहरूपेण विष्णुना शस्त्रागोचरत्वाच्च नखरैरेव विदारितत्वात् प्राधान्यम् इत्यदुष्टः आदावेव कररुहावलीनमस्कारः ।। नन्वर्वाचीनपराचीनावस्थाद्वयस्वरूपस्य भगवतः किमर्थ परमार्थतोऽनुपादेयरूपार्वाचीनावस्थादिम नमस्कारस्याभ्युपगतेति न वाच्यम् । अत्र हि प्रबन्धे श्रीशातवाहननरेन्द्रस्य लीलावतीपाणिग्रहेण २२ भुक्तिफलमेवाभिधेयम् । तच्चाग्दिशायामेव सफलमाकलयाम इति सर्वमनवद्यमिति प्रथमगाथार्थः ॥१॥ तस्यैव पुरुषोत्तमस्य नवमेवावतरणैः कृतजगत्रयोपकारस्य वैशिष्टयं ख्यापयन्नाह । २) ते णमह-तं हरिं नमत । यस्य तइया तदानी बन्धनावसरे । त्रिभुवनं स्वर्गमर्त्य
'P opens with ६० ॥ ' नमो विघ्नराजाय ॥, Jwith ६० ॥ नमः सर्वज्ञाय ॥, B with ६०॥ श्रीसरस्वत्यै नमः॥. २= सरोषसुदर्शन, PJB सुअर'. २P हरिणक्कल, B हिरणकस. Pथलस्थिदो gap, Jथलगभिणं. " PJB नमह. ६ = तृतीयपदं, J तईआ तईअवयं तिहूयणं.' [मप्पे चिय] . 'PJB निसं. ३ नमस्कारश्चाभ्यु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org