________________
॥ सिंघीजैनग्रन्थमाला संस्थापक प्रशस्तिः ॥
cooooooooo
अस्ति बङ्गभिधे देशे सुप्रसिद्धा मनोरमा । मुर्शिदाबाद इत्याख्या पुरी वैभवशालिनी ॥ बहवो निवसन्त्यत्र जैना ऊकेशवंशजाः । धनाढ्या नृपसम्मान्या धर्मकर्मपरायणाः ॥ श्री डालचन्द इत्यासीत् तेष्वेको बहुभाग्यवान् । साधुवत् सच्चरित्रो यः सिंघी कुलप्रभाकरः ॥ बाल्य एवागतो यश्च कर्तुं व्यापारविस्तृतिम् । कलिकातामहापुयां धृतधर्मार्थनिश्चयः ॥ कुशाग्रीयस्वबुद्ध्यैव सद्वृत्या च सुनिष्टया । उपाय विपुलां लक्ष्मी कोट्यधिपोऽजनिष्ट सः ॥ तस्य मनुकुमारीति सन्नारी कुलमण्डना । अभूत् पतिव्रता पत्नी शीलसौभाग्यभूषणा ॥ श्रीबहादुरसिंहाख्यो गुणवाँस्तनयस्तयोः । अभवत् सुकृती दानी धर्मप्रियश्च धीनिधिः ॥ प्राता पुण्यवता तेन पत्नी तिलकसुन्दरी । यस्याः सौभाग्यचन्द्रेण भासितं तत्कुलाम्बरम् ॥ श्रीमान् राजेन्द्रसिंहोऽस्य ज्येष्ठपुत्रः सुशिक्षितः । यः सर्वकार्यदक्षत्वात् दक्षिणबाहुवत् पितुः ॥ नरेन्द्रसिंह इत्याख्यस्तेजस्वी मध्यमः सुतः । सूनुर्वीरेन्द्रसिंहश्च कनिष्ठः सौम्यदर्शनः ॥ सन्ति त्रयोsपि सत्पुत्रा आप्तभक्तिपरायणाः । विनीताः सरला भव्याः पितुमगांनुगामिनः ॥ अन्येऽपि बहवस्तस्याभवन् स्वस्रादिबान्धवाः । धनैर्जनैः समृद्धः सन् स राजेव व्यराजत ॥
अन्यच्च -
सरस्वत्यां सदासक्तो भूत्वा लक्ष्मीप्रियोऽध्ययम् । तत्राप्यासीत् सदाचारी तच्चित्रं विदुषां खलु ॥ नाहंकारो न दुर्भावो न विलासो न दुर्व्ययः । दृष्टः कदापि तद्गेहे सतां तद् विस्मयास्पदम् ॥ भक्तो गुरुजनानां स विनीतः सज्जनान् प्रति । बन्धुजनेऽनुरक्तोऽभूत् प्रीतः पोष्यगणेष्वपि ॥ देश-काल स्थितिज्ञोऽसौ विद्या-विज्ञानपूजकः । इतिहासादि-साहित्य-संस्कृति - सरकलाप्रियः ॥ समुन्नत्यै समाजस्य धर्मस्योत्कर्ष हेतवे । प्रचाराय च शिक्षाया दत्तं तेन धनं घनम् ॥ गवा सभा समित्यादौ भूत्वाऽध्यक्षपदान्वितः । दत्त्वा दानं यथायोग्यं प्रोत्साहिताश्च कर्मठाः ॥ एवं धनेन देहेन ज्ञानेन शुभनिष्ठया । अकरोत् स यथाशक्ति सत्कर्माणि सदाशयः ॥ अथान्यदा प्रसङ्गेन स्वपितुः स्मृतिहेतवे । कर्तुं किञ्चिदू विशिष्टं स कार्य मनस्यचिन्तयत् ॥ पूज्यः पिता सदैवासीत् सम्यग्ज्ञानरुचिः स्वयम् । तस्मात् तज्ज्ञानवृद्ध्यर्थं यतनीयं मयाऽप्यरम् ॥ विचार्यैवं स्वयं चित्ते पुनः प्राप्य सुसम्मतिम् । श्रद्धास्पदस्वमित्राणां विदुषां चापि ताहशाम् ॥ जैनज्ञानप्रसारार्थं स्थाने शान्ति नि के त ने। सिंघीपदाङ्कितं जैन ज्ञान पीठ मतीष्ठिपत् ॥ श्रीजिनविजयः प्राज्ञो मुनिनाम्ना च विश्रुतः । स्वीकर्तुं प्रार्थितस्तेन तस्याधिष्ठायकं पदम् ॥ तस्य सौजन्य - सौहार्द - स्थैयौदार्यादिसद्गुणैः । वशीभूय मुदा येन स्वीकृतं तत्पदं वरम् ॥ कवीन्द्रेण रवीन्द्रेण स्वीयपावनपाणिना । रस-नागा- चन्द्रान्दे तत्प्रतिष्ठा व्यधीयत । प्रारब्धं मुनिना चापि कार्यं तदुपयोगिकम् । पाठनं ज्ञानलिप्सूनां प्रन्धानां प्रथनं तथा ॥ तस्यैव प्रेरणां प्राप्य श्री सिंघी कुलकेतुना । स्वपितृश्रेयसे चैषा प्रारब्धा प्रन्थमालिका ॥ उदारचेतसा तेन धर्मशीलेन दानिना । व्ययितं पुष्कलं द्रव्यं तत्तत्कार्यसिद्धये ॥ छात्राणां वृत्तिदानेन नैकेषां विदुषां तथा । ज्ञानाभ्यासाय निष्कामसाहाय्यं स प्रदत्तवान् ॥ जलवाय्वादिकानां तु प्रातिकूल्यादसौ मुनिः । कार्यं त्रिवार्षिकं तत्र समाप्यान्यत्र चास्थितः ॥ तत्रापि सततं सर्वं साहाय्यं तेन यच्छता । ग्रन्थमालाप्रकाशाय महोत्साहः प्रदर्शितः ॥ नन्दं निध्ये ई- चन्द्रोदे जाता पुनः सुयोजना | ग्रन्थावल्याः स्थिरत्वाय विस्तराय च नूतना ॥ ततः सुहृत्परामर्शात् सिंघीवंशनभस्वता । भा विद्या भ व ना येयं ग्रन्थमाला समर्पिता ॥ आसीत्तस्य मनोवान्छाऽपूर्वा ग्रन्थप्रकाशने । तदर्थं व्ययितं तेन लक्षावधि हि रूप्यकम् ॥ दुर्विलासा विधेर्हन्त ! दौर्भाग्याच्चात्मबन्धूनाम् । स्वल्पेनैवाथ कालेन स्वर्गं स सुकृती ययौ ॥ इन्दु-खं शून्यं नेत्राब्दे मासे आषाढसञ्ज्ञके । कलिकाताख्यपुर्यां स प्राप्तवान् परमां गतिम् ॥ पितृभक्तैश्च तत्पुत्रैः प्रेयसे पितुरात्मनः । तथैव प्रपितुः स्मृत्यै प्रकाश्यतेऽधुना पुनः ॥ इयं ग्रन्थावलिः श्रेष्ठा श्रेष्ठा प्रज्ञावतां प्रथा । भूयाद् भूत्यै सतां सिंघी कुलकीर्तिप्रकाशिका ॥ विद्वजनकृताह्लादा सच्चिदानन्ददा सदा । चिरं नन्दस्त्रियं लोके श्रीसैंधी ग्रन्थपद्धतिः ॥
Jain Education International
For Private & Personal Use Only
9
२
३
४
५
६
19
८
९
१०
११
१२
१३
१४
१५
१६
१७
१८
१९ २०
२१
२२
२३
२४
२५
२६
२७
२८
२९
३०
३१
३२
३३
३४
३५
३६
३७
३९
४०
www.jainelibrary.org