________________
५४
10
महोपाध्यायमेघविजयगणिकृतं
[षष्ठः सर्गः निशि सतारनभःप्रतिबिम्बना कृपणवद् गणयांचकृवान् मणीन् । जलचलतकमुदच्छलसम्भवद्विमकरो मकरोऽग्रसरोऽम्बुधिः॥४९॥ तरदनेकसितच्छदपिच्छलच्छदमिषोच्छलदुज्वलचामरः। स्फुटरथाङ्गकुलाऽऽतपवारणः सरसभारसभाधिपतिळभात् ॥५०॥ अनुतटं जलकेलिचिकीर्षया मिलितचारुविलासवतीजने । सपदि पाद्यविधिं विलुलत्कुशैर्नवसरोऽवसरोचितमादधे ॥५१॥ अभिपततटिनीचलवीचिभिर्जनितफेनमिषाद्धसिताम्बुधिः। मणिगणैर्विरराज जलाशयः सललनाललनात् पतयालुभिः॥५२॥ विततपात्रतयैव पयोधरैरनुदिशं निभृतः समुदित्वरैः। जलनिधेः प्रतिकर्तुमिवोल्लसद्रसवयाः संवयास्सजलाशयैः॥५३ ॥ चलतरङ्गतुरङ्गमशालिनीरनुनयन्नृपवद् बहुवाहिनीः। स रुरुधे क्षितिविप्लवनोद्यतः शिखरशेखरसेतुमहीभृता ॥ ५४॥ वहनमुच्छ्रितलोहितकेतनं दधदयं हृदयं समरञ्जयत् । जयवतः क्षितिपस्य निपश्यतः प्रकृतिभिः कृतिभिर्विहितस्तुतेः ॥ ५५ ॥ जलनिमज्जनसज्जनकामिनीनयननिर्जितशालिपयोरुहः। सुषमयास्यसुनंदिसरोम्बरे सुरपतेरपतेज इवोद्ययौ ॥५६॥ उदयनगरलक्ष्या रम्यमादर्शरूपं पुरवरमदसीये सन्निविष्टं प्रतीरे । तपगणगुरुरागात् तत्र रागाविभागाद् घनतरविजयश्रीभूपरूपैरपीज्यः ॥ ५७॥
इति श्रीदिगविजयनाम्नि महाकाव्ये महोपाध्यायश्रीमेघविजयगणिविरचिते
कथानायकस्य ईशान दिग्विजयवर्णनो नाम षष्ठः सर्गः ॥ ६ ॥
15
[५३]१'उल्लसद्सवयाः' उल्लसन्तः रसवयसो अलपक्षिणो यन्त्र सः। २'सवयाः' जलनिधेः मित्रैः सहितः ।
[५७] ३ "विजयश्री' पत्तनाच्चलितानामीशानदिग्विजयः । मरुदेशापेक्षयाऽऽग्नेयीविजयः ।
[49] 1 'मकरः' निधिविशेषः। 2 'अग्रसरः' प्रष्टः। । इति हैमः [अभि. चिं. कां. ३ श्लो० १६४] । [5013°सितच्छद' सितच्छदाः हंसाः। 4 'स्फुटरथाङ्ग
| [5218 'तटिनीचलवीचिभिः' तटिनी नदी तस्या चलाः कुलाऽऽतपवारणः' स्फुटा ये रथाज्ञाश्चक्रवाकास्तेषां कुलं समूहः स
चपला वीचयः कल्लोलास्तैः। 9 'पतयालुभिः' पातुकैः।। एवाऽऽतपवारणं छत्रं यस्य सः। 5 'व्यभात्' विशेषेणादीदिपत्। ।"
[51] 6 'जलकेलिचिकीर्षया' जलक्रीडां कर्तुमिच्छया । [54] 10 तुरजम' तुरजमा अश्वाः। 11 'वाहिनीः' सेनाः। 7 'पाद्यविधिम्' पादार्थ वारि पाद्यं तस्य विधिः 'पादार्थ पाद्यम्'] [55] 12 'प्रकृतिभिः' प्रजाभिः। 13 'कृतिभिः' विद्वद्भिः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org