SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ पद्य १-१७ ] दिग्विजय महाकाव्यम् स्वर्गस्य नाथा बलिनो महेन्द्रमुख्या जितास्तेऽपि पुराऽसुराद्यैः । अमुष्य राजा किल चक्रवर्ती सुरासुरैरप्यहतप्रभावः ॥ ९ ॥ गैङ्गाप्रसङ्गाल्लभतां कथञ्चित् स्वर्गोऽस्य साम्यं न तथाऽपि सम्यक् । सिन्धुप्रबन्धव्यतिरेकतस्तत् स्पर्द्धाऽर्द्धरूपैव विवर्द्धनीया ॥ १० ॥ द्वात्रिंशदस्मिन् वरसन्निवेशा देशाः सहस्राणि सुराऽऽलयाद् ये । लक्षा विमाना अपि नाधिकत्वं योगान्नराणामुत । किं नराणाम् ॥ ११ ॥ न भूमिभागे भरतस्य रोगा भोगाश्च साऽऽभोगतया रसाढ्याः । स्वर्गे नभोगा वपुषोऽनुयोगात् सविक्रियास्तेऽनिमिषत्ववृत्त्या ॥ १२ ॥ भूमिदेशा भरतप्रदेशे खर्गे पुनः द्वादशधा प्रयोगः । सत्पुण्यनैपुण्यवशान्न जेयो द्वाभ्यामथैकोऽपि च देशलेशः ॥ १३ ॥ ध्रुवस्थलं किञ्चन देवलोके तत्रापि मेरोः सविधानुभावः । 10 [9] वर्षस्य | [ १६ ] १'मिथोऽनुबद्धे युग्मे' मुख्ये युग्मेऽनुबद्धेऽन्त्ये युग्मेऽप्यनुबद्धे मध्ये, एक एकः स्वर्गः | 1 सप्तैव तस्मिन् ऋषयोऽथ तेऽपि सारुन्धतीकाः प्रगटव्यलीकाः ॥ १४॥ तीर्थेश्वराश्चक्रभृतो बैलाचा आर्यान्यकार्याय कृतावताराः । सहस्रशः सर्ववुधो मुनीन्द्राः स्वर्गेऽस्य साम्यं न जडेन काम्यम् ॥ १५ ॥ नैकेन जेयो भरतप्रदेशः खर्गेण युग्मे च मिथोऽनुवद्धे । मुख्ये तथान्ये विबुधाऽऽलयानां मध्ये तदेकत्वमभीतिभावात् ॥ १६ ॥ द्वयोर्द्वयोस्ता विषयोश्च सारमादाय धाता विदधेंऽशषट्कम् । क्षेत्रस्य नूनं भरतस्य तस्मात् खःसङ्ख्यया षोडशता न युक्ता ॥ १७ ॥ 1 'अगुराद्यैः' तारकायसुरैः । 2 'अमुष्य' भारत [10] 3 'गङ्गाप्रसङ्गात् ' भरतप्रदेशे यथा गङ्गा वरीवर्ति तथैव स्वर्गेऽपि गङ्गा वर्तते । 4 'सर्द्धार्धरूपैव अर्धरूपैव सा स्पर्द्धा न पूर्णेत्यर्थः । [11] 5 'वरसन्निवेशा:' श्रेष्ठसंस्थानानि । 6 'विमानाः ' वायुयाना विगतमाना वा सरलाचेत्यर्थः । 7 'किं नराणाम्' किन्न राणां कुत्सितपुरुषाणां वा । [12] 8 'साभोगतया' ज्ञानयुक्तया विस्तारेण सहितया वा । 9 'नभोगाः ' देवाः, भोगाः नेत्यर्थोऽपि । 10 'अनिमिषववृत्त्या' न निमिषति लोचनेऽनिमिषस्तस्य भावः । [13] 11 'षड्भूमिदेशाः ' -- "भरतवंशस्य योजनानां चतुदेश सहस्राणि चत्वारि शतानि च षड्भागा विशेषोना ज्या वर्तते तेन तस्य षट् भागाः वर्तन्ते” । 12 'सत्पुण्यनैपुण्यवशात्' सौख्या तिरेकान्न तत्पुण्यकौशलमधिगन्तुं शक्ताः । यथोक्तम्- "देवानां कृच्छ्रावाप्तविषयमुखलवाऽऽखादापहृतचेतसामनवाप्तगुरूदितश्रवणानां Jain Education International For Private १५ 5 [14]14 'सारुन्धतीकाः' वशिष्ठपत्नी अरुन्धत्यासहिताः। 15 प्रगटव्यलीकाः' व्यक्तदोषास्तेषां स्त्रीपरिग्रहत्वात् । केवाश्चिच्च कथञ्चिद्धितश्रवणसंभवेऽप्यवश्य भोग कर्माधीनत्वादकर्म भूमित्वाच्च विरत्यभावस्तेन भरत प्रदेशो न जेयः " । 13 'द्वाभ्याम् द्वाभ्यां स्वर्गाभ्यामेको भागोऽपि न जेयः । [15] 16 'बलायाः' बलभद्रादयः । 17 'सर्वबुधः ' सर्व बोधन्तीति । [16] 18 'तदेकत्वमभीतिभावात्' भरतप्रदेशस्य वीरताssदिगुणप्रकर्षेण तस्यैकत्वं भयाभावात् । स्वर्गश्च तावद् भयान्वितत्वेन मिथोऽनुबद्धः । Personal Use Only [17] 19 'ताविषयोः ' स्वर्गयोः । 20 'पोडशता' अत्र दिग म्बराणां प्रत्याक्षेपो यत् तैरभिमता स्वर्गाणां षोडशता न युक्ता । सा चेयम् — “सौधर्मेशानसानत्कुमार माहेन्द्रब्रह्म ब्रह्मोत्तरलान्तवकापिठशुक्रमहाशुक्रशता र सहस्रा रेष्वानतप्राणतयोरारणाच्युतयोर्नवसु ग्रेवेयकेषु विजयजयन्तापराजितेषु सर्वार्थसिद्धौ च" इति तत्त्वार्थराजवार्त्तिकम् [अ० ४ सू० १९] । 10 15 www.jainelibrary.org
SR No.002784
Book TitleDigvijaya Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmbalal P Shah
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy