________________
दिग्विजयमहाकाव्यम् ।
एकोऽपि सूरिर्धनराशिभर्त्ता यदाऽऽगमो राजगृहे शुभाय । पदप्रसादाज्जगतीं पुनाना वन्द्या न किं सूरिपरम्परा सा ? ॥ २७ ॥ संरखती संन्निहिता हिताय जडेऽपि पद्माभ्युदयेन भूयात् ।
नन्दनीया केविना विनोदेर्या राजहंसैः सरसोह्यतेऽर्थे ॥ २८ ॥ ये संयंता अप्यपरस्य बन्धं विनाशनं वा जनयन्त्यवश्यम् । दूरेण हेया न मुमुक्षुणा किं ते शृङ्खला भासि खलाः फलार्थे ॥ २९ ॥ असङ्ख्यकूटः स्थेपुटाः प्रपातस्थानानि भीमी विलसन्महेभ्यः ।
दोचगोत्रा अपि मेखलाऽङ्का हिताय तेषां भुवि पक्षपातः ॥ ३० ॥ युक्तोऽतिजिह्मैर्विटपैरगम्यः प्रवृत्तिहेतुर्बहुनिम्नगानाम् । गोत्राsध्यायत मेखलो यस्तै स्मिन् वरत्राशिखराधिरोहः ॥ ३१ ॥ [ पाठान्तरम् ]
जंगज्जुगुप्सुः समितिप्रयोगी सदाप्यसाधैर्मलहृद् विरागः । स्फुरद्गुणग्रामकथा मौनी निबन्धभेदं न विवेदे किं सः ॥ ३२ ॥ [२७] १ ‘सूरिः गुरुः । २ ' धनराशि भर्त्ता' धनसमूहं पुष्णाति । ३ 'यदाऽऽगमः' यस्य सुरेरागमः सिद्धान्तः । ४ 'राजगृहे' राजगृहनामनगरे । ५ 'शुभाय' [ कल्याणाय ] अभूदिति शेषः । पक्षे- 'यदाऽऽगमः' यस्य गुरोः आगमनम् । 'राजगृहे' चन्द्रगृहे कर्कराशी उच्चस्थानत्वात् । ६ 'पदप्रसादाद्' पदानि वाचकादीनि प्रदानात् ।
पद्य २२-३२ ]
[२८] ७ 'सरस्वती' सरस्वती देवी । ८ 'सन्निहिता' योजिता । ९ 'जडे' माशे मूर्खे | १० 'पद्माऽभ्युदयेन' लक्ष्मीवर्धनेन । ११ 'आनन्दनीया' वर्द्धनीया । १२ 'कविना' पण्डितेन । १३ 'राजहंसै: ' राजसु हंसैः श्रेष्ठेः । १४ 'अर्थ सरसा' इति ॥
[ पक्षे 'सरस्वती' वाणी । 'जडेऽपि' जडेऽपि । 'पद्मा' लक्ष्मीः शोभा इति यावत् । 'राजहंसैः' चन्द्रसूर्यैः । 'ऊह्यते' धार्यते । चन्द्रार्कमण्डले लिखितैव ॥ 'सरस्वती' नदी । 'जडे' जले [ 'डलयोरैक्यम्' इति नियमात् ] । 'कविना ' ब्रह्मणा । देवीपक्षेऽपि राजहंसैः ऊद्यते विमृश्यते ]
[ २९ ] १५ ‘संयता’ अन्योऽन्यं बद्धा । १६ 'अपरस्य बन्धं जनयन्ति ' १७ 'विनाशनम्' अशनं भोजनं विना ।
[ पक्षे 'संयताः संवरकुशलाः । 'अपरस्य बन्धम्' काव्यादिसंदर्भम् । 'विनाशनं जनयन्ति' विनाशं प्रापयन्ति ॥
[३०] १८ 'कुटैः' कूटानि शिखराणि छलानि वा । १९ 'स्थ पुटाः' विपमोन्नताः । २० 'प्रपातस्थानानि' प्रपातोऽवटः स्खलितं वा तदास्पदम् । २१ 'भीमा' रुद्राः | २२ 'विलसन्महेभ्यः '
[30] 1 'अविलसद् महेभ्यः' महेभ्यः महाssव्यः लक्ष्मीवान् अविलसद् विलासं करोति स्म । 2 गोत्रा ः ' पर्वताः । 8 'मेखला ' कटिसूत्रं पर्वतस्य मध्यभागो वा । 4 'पक्षपातः ' पक्षे पातः पक्षाणां वा पातः नाश इति यावत् ।
Jain Education International
For Private
बिल, सद्, महा, इभ्य, इति पदविभागः [ बवयोरैक्यमिति ] बिले सीदन्तीति बिलसदः सर्पाः महामहिषास्तेभ्योऽपि । २३ 'सदोच्चगोत्रा' विशिष्टवंशा अपि । २४ 'मेखलाऽङ्का:' मे, खल, अङ्का, इति पदविभागः । 'मे' मम, 'खलाङ्काः' खलवत्, अङ्कश्चिद्धं लक्षणं येषां ते ॥
[३१] २५ ' अतिजिह्मः' अतिवकैः । २६ 'विटपैः' विटपाः शाखाः दुर्जनाश्च तैः । २७ 'प्रवृत्ति" शिक्षाकरः । २८ 'निम्नगानाम्' असन्मार्गगानां पुंसाम् । २९ 'गोत्राधरः ' भूधरो गोत्रेण हीनो वा । ३० 'अध्यायतमेखल:' अधिकं आयता मेखला यत्र । अधि, आयतमे, खलः, इति पदविभागे प्रकृष्टः अध्यायः अध्यायतमस्तत्र खलः दूषकः । ३१ 'तस्मिन् वरत्राशिखराधिरोहः ' तस्मिन् वरत्रया रज्जुकया शिखरेऽधिरोहः । वर, त्रासि, खरे, ऽधिरोहः, इति पदविभागे त्रासोऽस्मिन्नस्तीति त्रासी [ त्रासयतीतित्रासी इद्दृक् ] खरेऽधिरोहो वरम् ॥
[३२] ३२ 'जगजुगुप्सुः' संसारनिन्दकः संसाररक्षको वा । ३३ 'समितिप्रयोगी' समितय इर्यायाः समितिः कलहः [ समितिप्रयोगी रणतत्परः ] ३४ 'सदाप्यसाधुः' सतामाप्यः सेव्यः [ प्राप्योऽभिगम्य इति यावत्; साधुः सज्जनः ] ३५ 'मलहृत्' मलं पापं हरति पक्षे मलो देवादिपूजायामश्राद्धस्तद्वत् हृदयं यस्य सः पक्षे पापहृत् ] ३६ 'गुणग्रामकथासु' गुणभाजनरूपास्वपि ग्रामकथासु । पक्षे गुणसमूहवार्तासु । ३७ 'मौनी' अभाषकः देशकथा निषेधात् । ३८ 'निबन्धभेदः' निबन्धः कर्मबन्धस्तस्य प्रकारं पक्षे काव्यादिदोषम् । ३९ 'विवेद' वेत्ति ।
[31]5 'निम्नगानाम्' सरिताम् 'स्रोतखिनी धुनी सिन्धुः सवन्ती निम्नगाssपगा' इति [ धनञ्जयः छो० २४ ]
[32]6 "अधरः' 'अथाधरः हीनवादिनि' इति [ है ० कां २ श्लो० ११]
Personal Use Only
5
10
www.jainelibrary.org