________________
१४०
महोपाध्यायमेघविजयगणिरचितम्
एकस्मिन् समये परमगुरुतपागच्छाधिपाः श्रीविजयदेवसूरयः स्वामिनो जिनशासनपट्टपरम्पराप्रवाह प्रवर्धयितुं श्रीसूरिमन्त्रेण ध्यानं चक्रुः; यदस्मदग्रे कः शासनाधिनाथो भविष्यतीति । तदा च प्रवर्धमानतप:पूर्वकजपावधानाऽऽकृष्टो माधिराजाधिष्ठायको देशेऽभ्येय नमस्कुर्वन् विज्ञप्तवान् - "स्वामिन् ! अद्यापि शासनाधिशीतुर्न दीक्षाऽपि प्रवृत्ता, भगवतामपि युष्माकं चिरायुष्कता, तत् किमनया चिन्तयाऽधुना ? समये 5 स्वल्पेनाऽपि तपसाऽहं स्मरणीयः, तदैवाऽऽगत्य वक्ष्यामि” इत्युक्त्वा सुरस्तिरोबभूव ।
___ कालान्तरे च स्वकीयपट्टे श्रीजिनशासनस्वामिस्थापनाऽवसरं निभाल्य श्रीगन्धपुरे गत्वा श्रीगुरुभिर्ध्यानं प्रारेभे । तदा तत्क्षणादेव मत्राधिष्ठायको देवः समेत्य निवेदितवान् - "हे स्वामिनः! पण्डितः श्रीवीरविजयनामा सौभाग्यनिधिः विधामहोदधिः निरुपधिः चारित्रगुणानामवधिः, अजिह्मब्रह्मविधिः विधिरिव सा."भुवनोपकारकः, केशव इव पुरुषोत्तमः, नरकान्तकृत् कुमोदकः, शिव इव महाव्रती, कामासहनो दक्षजातिस्निग्धः, 10 त्रिदशगुरुरिव निर्मलमतिः, सुमनसामग्रणीरसौ स्वपट्टे स्थाप्यः, यतोऽस्याग्रे महिमा हि मानाधिको भावी" इत्युक्त्वा देवे तिरोभूते श्रीगुरुभिः गाम्भीर्यशालिभिः जनप्रत्ययनाय बहिः शकुनगवेषणादावपि देवोक्तानुवादे हढीभूते सति राजनगरात् त्वरिताभ्यागत-सा० रत्न-प्रमुख राजनगरीयसङ्घाग्रहेण श्रीस्तम्भतीर्थ-श्रीपत्तन-श्रीसूरतिबन्दिरप्रमुखानेकदेश-ग्राम-नगरसमक्षं श्रीमहावीरस्वामिसातिशयमूर्तेः पुरः पत्रिकाविलोकनाऽऽनन्दितसकल
लोके श्रीगन्धारबन्दिरे विक्रमात् सं० १७१० वर्षे वैशाखसितदशम्यां भृगुवासरे पुष्यनक्षत्रे सुमुहूर्ते रङ्गदुत्तङ्ग15 मण्डपाऽखण्डशोभादिदृश्येवाभ्यागतेषु मुक्तानिकरदम्भान्नक्षत्रपक्षेषु वाद्यमानविविधाऽऽतोद्याडम्बरेण गर्जयत्यम्बरे
दह्यमानासु दुर्जनमनःशकटिकाविव धूपघटिकासु रसेनाऽऽपूर्यमाणासु सर्वसङ्घप्रमोदतटिकाविव घटिकासु प्रसरद्यशोभिरिव पुष्पप्रकरैराकीणे भूवलये श्रीवीरपट्टाधिपत्यज्ञापनायेव श्रीवीरजिनभवनाऽऽसग्नदेशे मण्डपेऽभ्यागत्य पं० श्रीवीरविजयाः श्रीविजयदेवसूरिभिः स्वपट्टे स्थापयाञ्चक्रिरे । तदा साधुश्रीअखईनाम्नः सुतेन
श्रीवर्द्धमानसंज्ञेन स्वमातृसाहिबदेवीसहितेन प्रतिगृहं सरूप्यमुद्रस्थालिकालम्भनिका चतुर्विधसङ्घवस्त्रपरिधाप20 नादिना भूरिद्रव्यव्ययेन महानुत्सवश्चक्रे । श्रीगुरुणा स्वयं चिन्तितम् , इष्टोपदेशेन उ० श्रीकमलविजयगणिभिर्जापिताचार्यपदं प्रदाय 'श्रीविजयप्रभसूरिः' इति नाम निर्ममे ।
विजयी जगदाराध्यो यशस्वी च प्रभाववान् । भगवन्नाद्यवर्णैस्त्वन्नाम्नाऽभूद् विजयप्रभः ॥ १ ॥
तदनु श्रीगुरुः श्रीविजयप्रभसूरिणा सह सूरतिबन्दिरे एकं चातुर्मासकं विधाय, श्रीराजनगरे चतुर्मासी कृतवान् । तत्पारणायां सङ्घमुख्य-सा० सूरापुत्र-सा० धनजीनाम्ना विज्ञप्य श्रीगुरूणां वन्दनकमहोत्सवः प्रारेभे। 2 तत्र च मिलिताऽस्तोकलोकस्थानाय कमनीयप्रकटपटमण्डपैर्मा शून्यदर्शनं भूद् , इतीवाऽऽच्छादिते वियति सुवर्ण
खचितनिचितश्रुतिपञ्चवर्णचन्द्रोदयप्रभासङ्करेण रात्रिंदिवातीतविमानोपमानतायामुपनतायां जगति सुसीमताकारिशमैकसाम्राज्यविजयमाने तत्र न तपनकरप्रचार इतीव सहस्रकरकरेषु भूमिमस्पृशत्सु विविधधवलगान. श्रवणैकाग्र्येण चित्रतुल्यनिश्चलनरामरोरगैः शोभितेषु पटकुलेषु विश्वविश्रान्तिशारदाभ्रपटलेषु इवाऽत्युच्चमण्डपेषु सिंहासने श्रीविजयप्रभसूरिं निवेश्य भगवान् स्वयं स्वतुल्यताज्ञापनार्थं पुरः स्थित्वा सुमुहूर्ते वन्दनकानि 30 दत्तवान् । जातश्च महान् प्रमोदः । तद्नु सर्वसङ्घसमक्षं श्रीपरमगुरुणाऽभाणि - "यथाऽहं तथाऽयं सर्वसद्धेन सेवनीयः । संसारसागरे प्रवहणमयं कदापि न मोक्तव्यः" ।
___ ततः कृतसंस्कारो मणिरिव, घननिर्मुक्तः सूर्य इव, आहुत्युद्दीपितः पावक इव, भावप्रतिबिम्बनाद् दर्पण इव, प्रोक्षालितः कनककलश इव, तैलापूर्णः प्रदीप इव, कृताऽलङ्कारः क्षितिपतिरिव, घननिधौतः कनकगिरिरिव, शोधितो ग्रन्थ इव, अधिक सञ्जातवन्दनकोत्सवपरिकर्मा स श्रीविजयप्रभसरि रितेजसा दिदीपे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org