SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ दिग्विजय महाकाव्यम् जनयतु सुखाऽऽनन्त्यं नित्यं जिनोवृजिनोऽङ्गिनां शिवपदमिति ध्यानाच्छैलं समेतमुपेयुषाम् । शिवमनुनयन् नाम्नाऽनन्तः सतां विषमेष्वपि नटनघटना कौशल्येनार्चितस्त्रिदशैरपि ॥ ३५ ॥ हृदयकमले श्रद्धाभाजां जिनो रमतां मतां रतिमनुनयन् दिष्ट्वाऽभीष्टप्रधान विधानतः । उपवनघटारम्ये सम्यक् समेत गिरौ शिवं समधिगतवान् धर्मः शर्मश्रियाः समुपाश्रयः ॥ ३६ ॥ अशिवनिवहे शान्तिः कान्तिर्भृशं जगतीभुवामरिपरिभवे श्रान्तिः क्षान्तिः परस्परसङ्गरे । भुवि भगवतो यस्यावश्यं बभूव जनुर्दिने दिशतु स शिवं सिद्धः शान्तिः समेतनगोत्तमे ॥ ३७ ॥ अतिशयरमापात्रं गात्रं यदीयमदीप्यत शिखरिणि ययौ यो निर्वाणं समेदकसंज्ञिते । तदनुभजनासक्ते व्यक्ते दधन्मधुरश्रियं स जयतु जिनः काकुत्स्थाख्यस्तथाऽपरकुन्थुवाक् ॥ ३८ ॥ शमरसपयोरा शिर्नूनं विकाशि (सि) तसन्मना अरजिनवरः कुर्याद् धुर्यां महोदय संगतिम् । विजितसमरः कर्मारीणां भरेऽपि स सङ्गरः करपरिकरव्यासाद्धासाऽऽश्रयीकृतभास्करः ॥ ३९ ॥ सुकृतविलसद्वल्लीफुल्लुक्रियासु पयोधरः पच २६-४२ ] करिहरि भयव्यापत्पल्लीविनाशनृपोद्धुरः । दिशतु भगवान् मल्लिमल्लीप्रसून सद्यशाः रसपरवशा मुक्तिप्राणप्रियासुरतेर्दशाः ॥ ४० ॥ यदुकुलनभोभाखान् भूयान्मुदे मुनिसुव्रतः क्षपितदुरितस्तत्रैर्भूरिव्रतैर्घन भूघनः । अमृतसमये मूर्द्धन्यद्रेः संमेतवरस्य यः स्थिरतरतनुर्वैडूर्यस्य श्रियं चिरमाश्रयत् ॥ ४१ ॥ दमितविषयः खेष्टं दद्यादवद्यविभेदनः प्रशमितजगद्दोषः श्रीमान् नमिर्जिनपुङ्गवः । परमपदवीलाभे यस्याऽचलस्थलमन्वभूत् सुरसमुदये वेदीभावं समेतमहाहृयम् ॥ ४२॥ विजयकमलां यस्याssदेशाल्ललौ कमलापतिः परिणयमिषाद् राजीमत्या विबोधविधायिनः । दि० म० १७ Jain Education International For Private Personal Use Only १२९ 5 10 15 20 25 30 www.jainelibrary.org
SR No.002784
Book TitleDigvijaya Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmbalal P Shah
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy