________________
पद्य ५५-८६] दिग्विजयमहाकाव्यम्
१२३ स्युः संपदः प्रतिपदं विपदं निहत्य राज्यं विराजिगजवाजिशताङ्गराजि । सत्संगतिर्गतिरपि द्युसदां महेज्या यस्य प्रभाव-विभवानुभवाजनानाम् ॥ ७१ ॥ नूनं सहस्रगुसहस्रमहः प्रसह्य संपिण्ड्य शुद्धविधिना विधिना व्यधायि । तेजोभरः सकलपातकसंनिपातव्याघातहृजिनपतेः परमाश्वसेनेः॥७२॥ यो वारुणी न चकमे न तथोत्तराशां तद्वन्न दण्डधरदिग्गमनं कदाचित् । सोऽपूर्वभानुरिव पूर्वदिशं प्रपन्नः पार्श्वः सदाऽभ्युदयवानिति नात्र चित्रम् ॥ ७३ ।। यस्य प्रभा सहचरी गिरिसानुरागा बालातपप्रकरणान्महिता महीशैः। दूरीचकार भुवने जडिमाऽभिमानं त्यक्त्वा पराश्रयतयाऽङ्गभृतां नितान्तम् ॥ ७४॥
त्रयी येनोद्गीर्णा समवसरणे यस्य पुरतोऽ. _ हयः श्रेणीरम्या वियति दधते नृत्यललितम् । यतः पद्मोल्लासो भवति नियतस्तं धनकरं
नमामः श्रीपूर्वोदयिनमथ पार्च दिनकरम् ॥ ७५ ॥ स्तुत्वा जिनं प्रतिजनं विहिताऽतिभत्त्याऽऽदेशप्रभुर्नगरमैक्षत शस्त्रदक्षः। साक्षात् तदीयसुषमा सुखमानिनाय चेतस्ततः स्तुतिमिमामचिरादुवाच ॥७६॥ यत्र चित्ररचना वचनानां गोचरात् पटुधियामतिशेते। वेश्मनां धनवतां सुरलोके लाघवं विदधतां विभवेन ॥ ७७॥ मानवाऽऽश्रयभवाशिवसिद्धिर्जायते दिवमतीत्य समस्ताम् । इत्यवेत्य किमु पौरगृहाणि तुगतामधिगतानि विशिष्य ॥ ७८॥ अत्र कायमपहाय विवस्त्री भोगभाग भवति वस्त्रमिवाङ्गी। यात्वतः सहतनुर्मनुजन्मेऽतीव यत्र भवनेष्वतिवृद्धिः ॥७९॥ भास्करोपलदलैजनिताग्नेस्तापतो न जडिमा शिशिरेऽपि । स्पर्द्धया शशिमणिक्षरदम्भः संभवान्नहि शुचावपि तापः ॥ ८ ॥ उद्यतद्युतिमता हिमवृत्तिाश्यते भुवनमत्र विकाश्य । सौधपतिरदसीयशरण्या जायते तपसि चान्द्रपयोभिः ॥ ८१ ॥ सान्द्रचान्द्रविगलज्जलधारा धौतशडकलधौतसवर्णा । साङ्गगाङ्गपयसा ह्यभिषिक्तं पुण्यमेव कुरुते परलोकम् ॥ ८२॥ निर्दहद्भिरगुरुद्रुमसारैर्वान्तधूमकृतमण्डलयोगात् ।
स राजतां प्रकटयन् नगराणाम् ॥८३॥ यत्नबद्धशशिरत्नपयोभिर्जन्यते यदभिषेकविवेकः। बालसूर्यमहसा सहसा स्यात् सांप्रतं बहलचन्दनचर्चा ।। ८४ ॥ केतनैर्धनिनिकेतनलक्ष्मीचेतनैः पुरपुरन्दरमूर्तेः।। सा प्रकीर्णककला सकलाऽपि दयतेऽपवनभूपवनेन ॥ ८५ ॥ भूभृतां भवनपङ्गिनिवेशः पेशलश्रियमधादिह मौले। तत्र रत्नभुवि विम्बिततारामालया भवति मौक्तिकमाला ॥ ८६ ॥
आत
Jain Education International
For Private & Personal Use Only
wwww.jainelibrary.org