________________
जैनपुस्तकप्रशस्तिसङ्ग्रह । अलिखत्खयमत्र गर्ने श्रीमजिनदत्तसूरिशिष्यलवः ।
स्थिरचन्द्राख्यो गणिरिह कर्मक्षयहेतुमात्मनः ॥ ६६०. स्याद्यन्तप्रक्रिया सं० १२०७ ® [जेसलमेर, पृहद् भाण्डागार]
-उपाध्याय सर्वधरविरचित स्याद्यन्तप्रक्रियायां त्रिलिङ्गकाण्डश्चतुर्थः समाप्तः ।
संवत् १२०७ माघ सुदि २ रवौ मंगलं । ६६१. संवेगरंगशाला ® सं० १२०७ ७ [जेसलमेर, बृहद् भाण्डागार]
संवत १२०७ वर्षे ज्येष्ठ सुदि १० गुरौ अद्येह श्रीवटपद्रके दंड० श्रीवोसरि प्रतिपत्तौ संवेगरंग
शालापुस्तकं लिखितमिति । ६६२. वासवदत्ता ® सं० १२०७ ® [जेसलमेर, वृहद् भाण्डागार]
संवत् १२०७ श्रावण वदि ४ सोमे रुद्रपल्लीसमावासे राजश्रीगोविन्दचन्द्रदेवविजयिराज्ये श्रीयशोधरेण श्रीआचार्याणां कृते लिखितेयं वासवदत्ता।
शिवमस्तु सर्वजगतः परहितनिरता भवन्तु भूतगणाः ।
दोषाः प्रयान्तु नाशं सर्वत्र सुखीभवंतु लोकाः ॥ ६६३. कातंत्रोत्तरापरनाम विद्यानंद [व्याकरण] ® सं० १२०८ ®
[पाटण, खेतरवसहीपाटकावस्थित भाण्डागार] -इति विजयानन्दविरचिते कातंत्रोत्तरे विद्यानंदापरनाम्नि तद्धितप्रकरणं समाप्तं । । दिनकर-शतमिति संख्येऽष्टाधिकाब्दयुक्ते श्रीमद्गोविन्दचन्द्रदेवराज्ये जाह्वव्या दक्षिणकूलें श्रीमद्विजयचन्द्रदेव वडहरदेशभुज्यमाने श्रीनामदेवदत्तजह्मपुरीदिग्विभागे पुरराहूपुरस्थिते पौषमासे षष्ठयां तिथौ शौरिदिने वणिक् जल्हणेनात्मजस्यार्थे तद्धितविजयानंदं लिखितमिति । यथा दृष्टं तथा लिखितं । शुभं भवतु । पं०, विजयानंदकृतं कातंत्रसंबंधि कारक-समास-तद्धित-पाद
पंजिकायाः कातंत्रोत्तरः॥ ६६४. पूजाविधान (रत्नचूडादिकथा) ® सं० १२०८ छ [पाटण, खेतरवसहीपाटक]
संवत् १२०८ ज्येष्ठ सुदि ६ रवौ अद्येह श्रीमदणहिलपाटके समस्तराजावलीसमलंकृत महाराजा धिराज उमापतिवरलब्ध प्रसाद प्रौढप्रतापनिजभुजविनिर्जितरणांगणोपेत शाकंभरीभूपाल श्रीमत्कुमारपालदेवकल्याणविजयराज्ये तनियुक्त महामात्य श्रीमहा(१ वाहड) देवे श्रीश्रीकरणादौ समस्तव्यापारं कुर्वत्येवं काले प्रवर्तमाने ऊमताग्रामवास्तव्य लेखक जालेन पूजाविधानपुस्तिका लिखि
तेति । लेखक-पाठकयोः शुभं भवतु ॥ ६६५. सत्तरीटिप्पन [ रामदेवगणिकृत ] ® सं० १२११ ® [जेसलमेर, वृहद् भाण्डागार]
कृतिरियं श्रीरामदेवगणेः । संवत् १२११ अश्विनि वदि १ बुधदिने पूर्वभाद्रपदनाम्नि मूलयोगें 80 तृतीययामे पं० माणिभद्रशिष्येण यशोवीरेण पठनार्थ कर्मक्षयार्थं च लिखितं ।
15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org