SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ जैनपुस्तकप्रशस्तिसङ्ग्रह । श्रीवागभट्टमेरुमहादुर्गे पल्लीपालवंशे श्रेष्ठिलाखणश्रावको बभूव । तत्पुत्राः श्रेष्ठिपालू-घणहुलवीरदेवनामानस्त्रयः । श्रे० पालू भार्या रूपिणि तत्कुक्षिसमुत्पन्नौ द्वो पुत्रौ झांझण-गुणदेवसंज्ञको । श्रेष्ठि वीरदेवपत्नी वीरमती-मोल्ही इति पैतृकं नाम । तस्याः सुतो गुणैर्विशालो गुणपालः । तस्य जाया गउरदेवी इति विनयज्ञा। 5 इतश्च-हम्मीरपतनवास्तव्य श्रेष्ठि वारय नाम । तस्यांगजः श्रेष्ठि साल्हडः। तस्य सहचारिणी सदा सदनुष्ठानविधानतत्परा श्रेष्ठि[ नी] सूहवदेवी सुश्राविका । तत्पुत्रो जिनशासनप्रभावकः सा० कडयाश्रावकः । तस्य सहोदरा भगिनी अनारतं दान-शील-तपो-भावनादिविशिष्टधर्मध्यानपरायणा मोल्ही श्राविका । तथा सा० कडुया भ्राता उदाकश्रावकस्तस्यांगजो हीलणः । तेन सा. कडुया श्रावकेण च उदाश्रावकश्रेयोऽर्थ श्रीमत्पार्श्वनाथबिंबं श्रीवाग्भमेरुमहादुर्गे महावीरचैत्ये सप्तविंशत्यधिके 10त्रयोदशशते (१३२७) स्थापितं । सा. कडुया भार्या करिदेवी । तत्सुतः पुण्यपाल दुहिता च नीतलाख्या । द्वितीया प्रेयसी कुर्मदेवी तस्यास्तनया धांधलदेवीति । एवं च कुटुंबे प्रवर्तमाने प्रवर्द्धमाने च भीमपल्यां; शुश्रुवेऽन्यदा धर्मदेशना यथा ज्ञानं दानवमानवासुरगणैः संपूजितं स्फुर्जितं ज्ञानाधिक्यसमृद्धिरूपसुकला नृणामिहामुत्र न । ज्ञानं चक्षुरिवांतरं वितिमिरं सौभाग्यभाग्यास्पदं कल्याणैकनिकेतनं तदथवा कल्पद्रुकल्पं सदा ॥१॥ 15 इत्येतद्गुरुमुखतो निशम्य श्रुतज्ञानफलं विज्ञा......[सा कर्पूरदेवी] श्राविका भक्तिभर".....तद्बिंबदर्शनात् संजातहर्षप्रकर्षा आत्मश्रेयसे सर्वसिद्धांतोद्धारसारां संदेहद्रुमच्छेदननिशितकुठारधारां भव्यजनमनःप्रमोदकारिकां श्रीशतपदिकाभिधानपुस्तिका लेखयित्वा वाचनाचार्यमिश्राणां वाचनाय प्रददौ इति । नंद्यान्मेरुगिरिर्यावत् तिलकद्युतिदो दिशां । तावदेषा गुरुप्राज्ञैर्वाच्यमाना सुपुस्तिका ॥१॥ संवत् १३२८ वर्षे आषाढ शुक्ल पक्षे श्रीअणहिलपाटणपत्तने ठ० वयजासुत ठ० सामंत20 सिंहेन पुस्तिका लिखितेति भद्रं ॥ छ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002781
Book TitleJain Pustak Prashasti Sangraha 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1943
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy