________________
जैनपुस्तकप्रशस्तिसङ्ग्रह । दादस्य पत्नी भुवि मोषलाख्या शीलांबुराशेः शुचि चंद्ररेखा । तन्नंदनश्चाहनिदेविभा देपालनामा महिमैकधामा ॥ ४ ॥ ताभ्यां प्रसूतो नयनाभिरामो झंझाकनामा तनयो विनीतः ।
श्रीजैनधर्मेण पवित्रदेहो दानेन लक्ष्मी सफलां करोति ॥ ५॥ हान-जासलसंज्ञकेऽस्य सुभगे भायें भवेतां द्वये, मिथ्यात्वद्रुमदाहपावकशिखे सद्धर्ममार्गे रते। । सागारव्रतरक्षणैकनिपुणे रत्नत्रयोद्धासके, रुद्रस्येव नभोनदी-गिरिसुते लावण्यलीलायुते ॥६॥
श्रीकुंदकुंदस्य बभूव वंशे श्रीरामचंद्रः प्रथितः प्रभावः ।
शिष्यस्तदीयः शुभकीर्तिनामा तपोऽङ्गनावक्षसि हारभूतः ॥ ७ ॥ प्रद्योतते संप्रति तस्य पट्ट विद्याप्रभावेण विशालकीर्तिः। शिष्यैरनेकैरुपसेव्यमानः एकांतवादाद्रिविनाशवज्रम् ।। ८॥
जयति विजयसिंहः श्रीविशालस्य शिष्यो जिनगुणमणिमाला यस्य कंठे सदैव । 10 अमितमहिमराशेधर्मनाथस्य कंठे निजसुकृतनिमित्तं तेन तस्मै वितीर्णम् ॥ ९॥ छ ॥ तैलादक्ष जलाद्रक्ष रक्ष शिथिलबंधनात् । परहस्तगतां रक्ष एवं वदति पुस्तिका ॥ १० ॥ भमपृष्टि कटिग्रीवा एकदृष्टिरधोमुखम् । कष्टेन लिखितं शास्त्रं यत्नेन परिपालयेत् ॥ ११ ॥ यादृशं पुस्तके दृष्टं तादृशं लिखितं मया । यदि शुद्धमशुद्धं वा मम दोषो न दीयते ॥ १२ ॥
15 हुंबडवंशीय-श्रे०आम्बदेवसंतानसत्कैकाऽपूर्णा प्रशस्तिः ।
[६३]
20
श्रीमत्खेटपुरोद्भवोच्चजनताधारो मनोनंदनः, ख्यातः प्रांशुगुणेन धर्मवसतिः श्रीतुंबडानां वरः ॥ १ ॥ श्रेष्ठी तत्राम्बदेवो शुभगुणकलितो.... [ दाक्षि ]ण्यौदार्यभूमि..... लोकनयविनयदयाकीर्तिशाखाभिरामः । सद्दाक्षिण्यप्रसूनो विशदशुचिगुणस्कन्धसाधुप्रसिद्धः, आसीदाम्रोपमानः प्रणयिनि जनतातापरक्षकदक्षः ॥ २॥ वाटापल्लीपुरीयचैत्यभवने शांतेर्जिनेशप्रभोः .......................................॥ सद्वद्धोपलपीठदेवकुलिकास्तीर्थेषु यात्राः पराः, सद्धर्मोऽमलधीरचीकरदसौ पुण्योदयाय व्यधात् ॥ ३॥
तद्भार्या शीलसद्धर्मकर्मलालसमानसा । सावित्रिरिति विख्याता बभूवेव प्रजापतेः ॥ ४ ॥ नानाशास्त्रविचारकोविदधियः संपत्सु नैवोद्धरा.............."सैकहृदया औझन्न चापत्सु ते । ध्वस्ताशेषकुवादिसद्गुरुवरास्यांभोजनिर्यद्वचो, धर्मध्यानविधिप्रसाधितमहाकल्याणकोशाः सुताः ॥ ५॥
प्रबभूवुस्तयोः श्रेष्ठाः पंचामी पांडवा इव । शीलांबुविमलक्षेत्रं पुत्रीणां च चतुष्टयम् ॥ ६॥ तत्राद्यः सर्वदेवाख्यः श्रे........."[णा] करः । संधीरणो द्वितीयश्च तृतीयोऽम्बकुमारकः ॥ ७ ॥ तुर्यो नमिकुमाराख्यः पंचमो योहडिस्तथा । सद्दानतोषिताशेषमार्गणौधः सतां वरः ॥ ८॥
सज्जना संतुका चैव साउका सुंदरीति च । चतस्रः प्रीतिसंयुक्ता धर्मकर्मपरायणाः ॥९॥ उ()डास्थान""""दयजिता शेषादिल्लसज्जैनावा[सव !]......."सार्जितोर्जितमहापुण्योदयात् संप्रति । तत्राद्यस्य शशांकनिर्मलभरा कीर्तिस्त्रिलोकांगणे नृत्यत्युन्मदनर्तकीव विलसद् न्यायाचवित्तव्ययात् ॥ १० ॥
25
30
* पत्तने संघसत्कभाण्डागारे त्रुटितताडपत्राणां मध्ये एकस्मिन् पत्रे इयं खण्डितप्राया प्रशस्तिर्लब्धा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org