________________
सव
युगप्रधानाचार्यगुर्वावली। मं० गेहाकेन कारितमहाप्रवेशका दिनद्वयमवस्थाय श्रीआशोटास्थाने श्रीपूज्याः समाययुः । तत्र च साधुश्यामलकुलो
सेन श्रीशत्रुञ्जयादिमहातीर्थयात्रनिर्माणविश्वविख्यातनानावदातेन सङ्घपुरुषसाधुवीरदेवसुश्रावकेण श्रीविधिसमुदायसहितेन राज० श्रीसं(रु?)द्रनन्दनराज गोधा-सामन्तसिंहादिसकलराजलोकनागरिकसम्मुखानयनपूर्वकं श्रीभीमपल्लीकारितयुगप्रवरागमश्रीजिनकुशलसूरिप्रवेशकमहोत्सववत् श्रीपूज्यानां सविस्तरतरः प्रवेशकमहोत्सवश्वके । ततश्च साधुमोखदेवकारितविहारक्रमोपक्रमा विषमकालेऽप्यस्मिन् चौरचरटप्रचारप्रचुरेऽपि मार्गे नगरमार्ग इव निःशङ्काः श्रीपूज्या ब्रजदीस्थाने पादाववधारयाञ्चक्रुः । तत्र च साधछञ्जलविपुलकुलगगनतलसमलङ्करणसहस्रकिरणकल्पेन सामोखदेवसुश्राव
विधिसमुदायसहितेन चाहमानवंशमानससरोराजहंससमानखवाचाप्रदाननिर्वाहणप्रधानराज श्रीउदयसिंहप्रमुखराजलोकनागरिकलोकसम्मुखानयनेन महाप्रभावनापुरःसरप्रवेशकमहामहोत्सवश्वके ।
११८. ततस्तत्रैव वर्षे राज० श्रीउदयसिंहमहाप्रसादमासाद्य साधुराजमोखदेवेन साधुराजसिंहतनय-सा०पूर्णसिंहसाधनसिंहादिसकलखकीयकुटुम्बसहितेन श्रीअर्बुदाचलादितीर्थयात्रां कर्तुं श्रीपूज्या विज्ञपयामासिरे। श्रीपूज्यश्च ज्ञानध्यानविधानसमनुकृतसर्वस्वपूर्वजयुगप्रधानपरम्परावदातैनिर्विघ्नमिति परिभाव्य श्रीतीर्थयात्रामहत्प्रभावनाङ्गं श्रीसम्यक्त्वनिर्मलतानिदानं सुश्रावकाणां कर्तव्यैवेति तद्विधाने समादेशः प्रादायि । ततश्च श्रीसपादलक्षीय-श्रीश्रीमालीयसा०वीजा-सा देपाल-सा०जिनदेव-सा०साङ्गाप्रमुखस्वपक्ष-परपक्षश्रावकसङ्घकुङ्कुमपत्रिकाप्रदानेन, मार्गे च सा०मूलराज-सा० पद्मसिंहाभ्यां सर्वसङ्घस्य शुद्धौ क्रियमाणायां समाकार्य, चैत्रशुक्लषष्ठीदिने आदित्यवारे श्रीपूज्यानां पार्थात् श्रीतीर्थयात्रायोग्यनूत्नकारितश्रीदेवालये श्रीशान्तिनाथविम्बस्य संस्थापनावासक्षेपः साधुमोखदेवेन कारयामासे । ततोऽष्टालिकामहोत्सवान् महाप्रभावनया विधाय चैत्रशुक्लपूर्णिमायां श्रीबूजडीवास्तव्य-सा०काला--सा कीरतसिंह-सा० होता-सा०भोजाप्रमुख श्रीविधिसंघ-मं०ऊदाप्रमुखान्यश्रावकसंघमेलापकेन श्रीदेवालयप्रचलनमुहूर्त जज्ञे। श्रीपूज्या अपि श्रीलग्धिनिधानमहोपाध्याय-वा० अमृतचन्द्रगणिप्रमुखमुनिमतल्लिकापञ्चदश-श्रीजयद्धिमहत्तराप्रमुखसाध्व्यष्टकपरिवृताः श्रीसद्धेन सह श्रीतीर्थयात्रायां प्रचेलुः ।
११९. ततः श्रीबूजद्रीसङ्घः श्रीसपादलक्षीयसङ्घन सह मिलिखा श्रीनाणातीर्थे समाययौ । तत्र च सा० सूराप्रमुखश्रावकवृन्दस्वीकृतश्रीइन्द्रपदादिनिर्माणेन महतीं प्रभावनां विधाय, श्रीमोखदेवप्रमुखश्रीसङ्घः श्रीमहावीरमहाप्रासादे रूप्यटङ्क शत २ द्रव्यं सफलीचकार । ततः श्रीपूज्याः शुभशकुनैः प्रोत्साह्यमानाः समस्तश्रीविधिसङ्घनाहमहमिकया वरिवस्यमानाः श्रीअर्बुदाचलालङ्कारसकललोकमनोपहारविज्ञानवितानसारश्रीविमलविहार-श्रीलूणिगविहार श्रीतेजसिंहविहारमूलालङ्कारश्रीनाभेय-श्रीनेमीश्वरप्रमुखश्रीतीर्थकरवारं भावसारं नमश्चक्रुः । तत्र च सा०मोखदेवप्रमुखश्रीविधिसङ्घन श्रीशक्रपदामात्यपदादिपदनिर्माणमहाध्वजारोपणावारितसत्रादिमहामहोत्सवपरम्परां विरचयता रूप्यटङ्कशत५ प्रमाणं द्रविणं सफलीचक्रे । ततः श्रीप्रह्लादनपुरस्तूपालङ्कारश्रीमजिनपतिसूरियुगप्रधानमूर्ति मुद्रस्थलाग्रामे श्रीपूज्याः सकलसवसमन्विताः प्रणेमुः। ततः श्रीजीरापल्लयां जाग्रत्प्रभावकमलासनाथश्रीपार्श्वनाथं श्रीपूज्याः श्रीसङ्घसमन्विताः प्रणमन्ति स्म । तत्र च श्रीसङ्घन श्रीशक्रपदादिमहोत्सवान् विधाय रूप्यटङ्कशत १५० कृतार्थीकृतम् । ततः स्थानात् प्रस्थाय श्रीसङ्घः श्रीचन्द्रावत्यां सकलसङ्घपादावधारणं विदधे । तत्र च श्रीसङ्घस्य साधुझाञ्झण-मं०कूपाप्रमुखनागरिकसुश्रावकलोकेन श्रीसाधर्मिकवात्सल्यश्रीसङ्घपूजादिविधानेन बहुमानप्रदानं प्रचक्रे । श्रीसद्धेन च तत्रापीन्द्रपदादिविधानेन श्रीयुगादिदेवप्रासादे रूप्यटङ्कशत२ कृतार्थयामासे। ततोऽपि प्रस्थाय श्रीआरासने श्रीनेमीश्वरप्रमुखपश्चतीर्थी श्रीपूज्याः श्रीसङ्घन सह नमन्ति स्म । तत्रापि श्रीसङ्घन पूर्ववच्छत्रपदादिनिर्माणेन रूप्यटङ्कशत १५० सफलं निर्ममे । ततश्च श्रीतारङ्गके श्रीकुमारपालभूपालकीर्तनं श्रीअजितस्वामिनं श्रीसङ्घः प्रणनाम । तत्र च विशेषतरं श्रीसद्धेन श्रीशक्रपदादिनिर्माणेन रूप्यटङ्कशते २ सफले विदधाते । ततो व्याघुव्य श्रीसङ्घः श्रीत्रिशृङ्गमके समागमत् । तत्र च मं० साङ्गणपुत्ररत्न-मं०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org