________________
जयपाहुडनाम निमित्तशास्त्रम् । [गाथा २०३-२०६ ] यल(ल)ब्धं तत्पृथक् स्थापयेत् । तस्मिंश्च पृथक् स्थापिते पूर्वपिंडीकृत्य(ता)क्षरसंख्यां शोधयित्वा पंचपंचाशतभागावसि(शि)ष्टाश्च तत्रैव क्षिप्ता लेखाक्षरसंख्या भण्यन्ते ।
सो(सा)म्प्रतं कवर्गादिवर्गानयनक्रियोच्यते-तत्र पूर्ववर्गित[ प० १०९, पा० १]मवस्थापितं, तस्य पंचपंचाशता भागमपह(हा?)त्य यल(ल)ब्धं तत्पृथक् स्थापयित्वाऽवशिष्टस्य चाष्टभि5 भा(र्भा)गेऽपहृते यल(ल्ल)भ्यते तद्वर्गककारादिपदमपरमवशिष्टं, तदपि ककारादिरेव वर्गः ।
यदा सर्व शुद्ध्यति तदा स्वरो लभ्यते । अकारपृथक्स्थापितं यत्तत्सप्ताधिकं यदि भवति तत् स[प्त]भिरेव भाजितव्यम् । त(य)दा न सप्ताधिकं तद्भवति तदा तस्यापि ककारादिरेव वर्गः । एवं नामसंख्याप्रमाणेन अवर्गानू(नु)त्पादेय(दये)त् मतिमानिति ॥ २०२ ॥
॥ इति लेखगंडिकाधिकारः(रे) संख्याप्रमाणं [प० १०९, पा० २] समाप्तम् ॥ ..
दिणपक्खमाससंवस्स(च्छ)रक्खरा जे हवंति बहुसंखा । तथ(प्प)इ सं[खा] गुणए, तस्स सनामा हवइ संखा ॥ २०३ ॥
क च ट त प य शाः- दिवसाः । ख छ ठ थ फर षाः - पक्षाः।ग ज ड द ब ल साः-मासाः। घझ ढ ध भ व हाः-संवत्सराः । ङञ ण न माः- मासाः । दिनपक्षमाससंवत्सरान्यतमाक्षरबा
हुल्ये प्रश्रेऽभिघातं शोधयित्वा घे(ये)षा[५० ११०, पा० १]मधिका संख्या दृश्यते तां गणयेत् । 15 दिवससंज्ञा(ज्ञ)कवर्गस्याधिकसंख्यस्य दिवसैरेवावक्ति(धिः) भवतीति शुभाशुभफलादेशः कार्यः । एवं पक्षाक्षराणां, मासाक्षराणां, संवत्सराक्षराणां चाधिक्य(क्ये) संख्या वक्तव्येति ॥ २०३ ॥
सत्तम-णवमे य सरे, सुक्कदिणे पढम-ततियवग्गे य । बितिययवग्गे दसमे, सरे य पक्खो हवइ बहुले(लो) ॥ २०४ ॥
सप्तमस्वरेण एकारेण, नवमस्वरे[ण] तु उ(ओ)कारेण, क च ट त प य शा नां, गज ड द बल • सा नां उपरिगतेन केवलेन वा स्थापितेन शुक्लपक्षो भवति । द्वितीयो वर्गः-ख छ ठ थ फर षाः, स्ते (तेन) उ(औ)कारेण च कृष्णपक्ष आदेश्यः ॥ २०४ ॥
अट्ठमसरंमि संवत्स(च्छ)रा ह वगे(ग्गे) य तह य चउत्थंमि । चरिमे धातुस्ख(स)रेसु य, मासा अणुणासिये य तहा ॥ २०५ ॥
घझ ढ ध भ व हा नामन्यतमाधिके प्रश्ने अष्टमप० १११, पा० १]स्वरेण ऐकारेण युक्ते, एका25 वा(एतेषा)मन्यतमाक्षरे केवले चैकारे यत्र यत्रावस्थिते यत्किंचित् पृच्छति तत् 'संवत्सरेण प्राप्यत'इति वक्तव्यम् । बहुभिर्वा इति । चरिमाभ्यां सबिन्दु-विसर्गाभ्यां, च उज (उ ऊ अं ?), अनुनासिका ङ अ ण न माः, एभिरष्टैर्मास्या(सा) आदेश्याः । पूर्वोक्तन्यायेनेति ॥ २०५॥
पढमे य सत्तमसरे, पाडिवओ होइ सुद्धपक्खस्स । कायक्खरेसु सत्तसु, बितियादी अट्ठमी जाव ॥ २०६॥ [१० १११, पा० २]
प्रथमस्वर अकारः। सप्तमस्वर एकारः । एतद्बहुले प्रश्ने शुक्लपक्षस्य प्रतिपद्भवति । ककारबहुले प्रश्ने द्वितीया, चकारबहुले तृतीया, टकारबहुले चतुर्थी, तकारबहुले पंचमी, पकाराधिके षष्ठी, यकाराधिके सप्तमी, [शकाराधिके अष्टमी ।] एवं शुक्लपक्षस्य ॥ २०६ ॥
39
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org