________________
जयपाहुडनाम निमित्तशास्त्रम् । [गाथा ३७-४१] इहापि गणनमेवाङ्गीकृत्योक्तम् । विषमा[:]- प्रथम-तृतीय-पंचम-वर्गीया वर्णाः । द्वितीयचतुर्थाः समा इति । विषमवर्गीया उत्तराः, समवर्गीया अधरा इति । एवं गणनोत्तरम् ॥३६॥
हस्सा अयारसहिया, सरुत्तरादेसओऽधरा इयरे ।
क चट त पय सा णुगओ य अकारो उत्तरो पढमो ॥ ३७॥ ___ आदेशोत्तरमेतत् -हस्वाः स्वरा अकारसहिता इति । 'अकार इकार उकार एकार ओकार
इत्येते उत्तरत्वेना[प० २६, पा० १]दिष्टाः । एतेषां यद्यपि मध्ये उकारो अप्रधानो दाहात्मकः, तथाप्युत्तर एव द्रष्टव्यः । उकारो यद्यप्युत्तरं दहति स उत्तर एव । यद्यधरं दहति स अधरो दग्धः उत्तरो भवति। शेषाः षड् अधराः पूर्वोक्ता अपि भेदोत्तरेण पुनरादिष्टाः।आई ऊ ऐ औः, अक च ट त पय शेष्वन्तर्भूतोऽप्यकार उत्तर(रो) द्रष्टव्यः पृथगादौ ॥ ३७ ॥
क ग च ज ट ड त द प ब य ल, अट्ठमवग्गस्स पढम तइओ य । एते [य] उत्तरा वंजणेसु सेसा अ(5)धरादेसे ॥ ३८ ॥
'कगच जंट ड त द पब य ल श सा' एते प्रथम-तृतीयवर्गाक्षराः। प्रथमवर्गस्याष्टमःस(श)कारः । तस्मात् तृतीयः [५० २६, पा० २] 'स'कारः । एते सर्वे उत्तरत्वेनादिष्टाः । शेषा अधरा इति । 'ख घ छ झ ठ ढ थ ध फभ र वष हा' इत्येते द्वितीय-चतुर्थवर्गाक्षराः अधरा आदिष्टाः ॥ ३८ ॥
उत्तरसरसंजुत्ता, वग्गे लहु अक्खर(रु)त्तरादेसे ।
अहरसरेसु य अहरा, हवंति ये उत्तरा लहुया ॥ ३९ ॥
संयोगं प्रति उत्तरस्वरसंयुक्ता[:] । के ते उत्तरस्वराः ? उच्यन्ते-'अ इ उ ए ओ अं' [प० २७, पा० १] एते । प्रथम-तृतीय-वर्गप्रतिबद्धा ये अक्षरास्ते लघवः । के ते ? उच्यन्ते-क ग
चज ट ड त द प ब य ल श सा' इत्येते । अनन्तरोक्ता उत्तरस(स्व)रसंयुक्ता उत्तरा एवादिस्य20 (श्य)न्ते । एत एव 'कग च ज ट ड त द प ष ब य ल श सा' उत्तराधरस्वरैः 'आई ऊ ऐ औ अ' इत्येते(तैः) संयुक्ता अधरा इत्यादिस्य (श्य)न्ते । एवमादेशोत्तरम् ॥ ३९॥
दवेसु जे पहा[प० २७, पा० २ ]णा, पुत्वप(चुप्प)न्ना य उत्तरा सके ।
अधरा य अप्पहाणा, पञ्चुप(पच्छुप्प)ण्णा य जे दवा ॥ ४० ॥
द्रव्याक्षरेषु ये प्रधानतमाः पूर्वोत्पन्नाश्च प्रथम-तृतीयवर्गाक्षरास्ते उत्तराः प्रधाना ज्ञातव्याः। 25 अधराश्च पश्चादुत्पन्नाः। के ते ? द्वितीय-चतुर्थवर्गाक्षराः । अप्रधाना ज्ञातव्या अधराश्चेति ॥४०॥
णा(णे)मित्तिएण जे [प० २८, पा० १] वा, उत्तरबुद्धीए अत्तणो गहिया । ते तस्स उत्तराणि उ, सेसा अहरीकया अहरा ॥४१॥
चत्वारो ये विकल्पा उत्तराधरप्रकरणे उक्तास्तास्तिरस्कृत्य, वा क(का)दाचित्कं विधानमुररीकृत्य विकल्पान्तरस्य चोपदर्शनार्थ आहितसंस्कारस्य निमित्तज्ञानवतो द्रागिति बुद्ध्युत्पाद। उत्तरेषु 5 अधरबु(प० २८, पा० २]द्धिः, अधरेषु उत्तरबुद्धिर्वा यत्रोत्पन्ना फलतोऽपि तादृगा(गे)वासौ । यथाब्राह्मणकुलनिवासतुल्यो गोत्रवयोगुणादिपूर्वोत्तरसमाश्रितेषु तद्वद् विश्वासबुद्धिवदिति ॥ ४१ ॥
॥ एवं चतुर्विधम(मु)त्तराधरं समाप्तम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org