________________
* 76
रत्नप्रभसूरिविरचिता [IV. 21 : Verse 751 ततः शृणु । सर्वदैक एव जीवः संसारे परिभ्रमन्नस्ति, कः प्रियः, का प्रिया च, सर्वमपि संसारस्वरूपं 1 सौदामिनीव क्षणदृष्टनष्टम् । सर्वथैवानित्यतादिभावनाः समाश्रय । वियोगान्ताः संयोगाः। पतनान्ताः समुच्छयाः। महारोगा इव भोगाः। एष जीवः संसारे चतुरशीतिलक्षसंख्ययोनिषु नट इव विविधरूप- 3 भाग्भवतीति ज्ञात्वा सम्यक्त्वमङ्गीकुरु ' एवं च भो मणिरथकुमार, या सुन्दरी प्रबोधिता तेन गृहमुपागता च । तत्पित्रा महोत्सवो रचयांचके । सर्वत्र मध्ये पुरं प्रवृत्तः साधुवादो यदियं सुन्दरी 6 कुमारेण बोधिता । तावद्धो मणिरथकुमार, यः सुन्दरीजीवः स त्वं तदा कृतसम्यक्त्वरत्नयत्नः पञ्चत्व- 6
मवाप्य मानभटः संजातः। ततः पद्मसारनामा। ततः कुवलयचन्द्रः। ततो वैडूर्यनामा देवः । ततस्त्वं मणिरथकुमार इति। यः पुनर्वणिकूतनूजः स संसार परिभ्रम्यास्मिन् वने मृगी ससुदपद्यत । त्वा 9 दृष्ट्वोहापोहवत्या अस्याः प्राग्भवस्मरणेन त्वयि स्नेहः समुल्ललास।' एवं च भगवता निवेदिते मणिरथ- 9 कुमारेण विज्ञप्तम् । एवं ममानेन दुःखावासेन संसारवासेनालं, भगवन् , प्रसादं विधाय मयि
प्रव्रज्यारत्नं देहि' इति वदन् कुमारः श्रीभगवता दीक्षितः। 12२२) अत्रान्तरे गौतमेन गणभृता विज्ञप्तम् । 'भगवन् , अस्मिन् संसारे जीवानां मध्ये को जीवो12
दुःखितः' इति । भगवता समादिष्टम् । 'सम्यग्दृष्टिीवो ऽविरतो नित्यं दुःखित एव ।' गौतमेन
भणितम् । 'केन हेतुना ।' भगवता निवेदितम् । 'यः सम्यग्दृष्टिर्भवति स नरकतिर्यग्मनुष्यवेदनां 15 जानाति । ततः पुरतः संसारभावं प्रेक्षते । न च विरतिभावं करोति । अनुभवति वर्धमानसंतापो नरक- 15
दुःखमिति । अत एव स दुःखितानामपि दुःखी।' पुनर्गौतमेन पृष्टम् । 'स्वामिन् , कः सुखी। भगवतादिष्टम् । 'सम्यग्दृष्टिर्जीवो विरतः स एव सुखितः । यतः, 18 देवलोकसम सौख्यं दुःखं च नरकोपमम् । रतानामरतानां च महानरकसंनिभम् ॥ ७५ 18
एवमनेकधा भगवान् विविधजनपृष्टसंदेहसंदोहभङ्ग वितत्य समुत्तस्थौ । ततस्त्रिदशवृन्दमपि स्वस्वस्थानं जगाम । भगवानपि श्रावस्ती पुरीं प्रति जगाम । सुरैः समवसरणे कृते त्रैलोक्याधिपतिः सिंहासन 21 मलंचकार । गौतमादयो गणभृतो यथास्थानं निविष्टाः । तत्रत्यो नृपती रत्नाङ्गदो भगवन्तं प्रणिपत्य 21 निषसाद । भगवता संसाराशर्मनाशिनी देशना निर्ममे । अत्रान्तरे गौतमस्वामिना सर्वमपि जानताप्यबोधजनबोधार्थ तीर्थनाथः प्रपच्छे । 'नाथ, जीवस्वरूपं निवेदय ।' ततो भगवता यथावस्थं सर्वमपि 24जीवस्वरूपं प्ररूपितम् । अथ तत्र बालमृणालकोमलभुजो भुजान्तरराजमानहारसारः कपोलपालिविल-24 सन्मणिकुण्डलः कोऽपि नरस्त्रिदशकुमार इव प्रविश्य जय जयेति वदन् त्रिजगदभिवन्द्यमभिवन्ध बमाणेति । 'नाथ, यन्मया दृष्टं श्रुतमनुभूतं रजनीमध्ये तदधुना निवेदय, किमिन्द्रजालम् , किं स्वप्नः, सत्यं 7 वा ।' भगवता भणितम् । 'देवानुप्रिय, यत्त्वया दृष्टं तदवितथमेव ।' एतदाकर्ण्य तत्क्षणमेव त्वरितपदं 27 समवसरणानिःसृतः। ततो गौतमेन पृष्टम् । 'स्वामिन् , किमेतत्, अस्माकमपि महत्कौतुकम्।' ततस्तीर्थकृतादिष्टम् । 'इतो ऽस्ति नातिदूरे ऽरुणाभं नाम नगरम् । तत्र रत्नगजेन्द्रो नाम नृपतिः। तत्तनुजः 30 कामगजेन्द्रः । स चान्यदा प्रियङ्गुमत्या प्रियया सह मत्तवारणे निविष्टः । ततो नगरगतविभवविलासान् 30 प्रेक्षितं प्रवृत्तः। ततः कस्मिंश्चिदणिग्मन्दिरोपरि कट्रिीमतले कन्यकामेकां कन्दुककेलिं कुर्वतीमद्राक्षीत् ।
तस्य तदुपरि महानुरागः समुत्पन्नः।। 33 सुरूपे ऽपि कुरूपे ऽपि भवति प्रेम कुत्रचित् । रूपं स्नेहस्य नो हेतुर्वृथा रूपं ततोऽङ्गिषु ॥ ७६ 33
६२३) तेन पार्श्वस्थितायाः कान्ताया भयेनाकारसंवरणमेव चक्रे । तया तु तत्सर्वमपि लक्षितम् । तस्य राजपुत्रस्य तामेव ध्यायतो महत्युद्वेगे जाते तया चिन्तितम् । 'किं पुनरस्योद्वेगकारणम्, अथवा 36 शातं सैव वणिकपुत्री मत्पत्युश्चेतसि स्थिता।' ततस्तया तां याचयित्वा प्रियः परिणायितः। ततस्तुष्टेन 36
तेनोक्तम् । 'प्रिये, साधु त्वया तदा मम मनोभाव उपलक्षितः । ततस्त्वं ब्रूहि कान्ते, कं ते वरं
ददामि।' तयोक्तम्। 39 'यत्किंचित्त्वं पश्यसि शृणोषि यद्वानुभवसि यद्दयित । तत्सर्वमपि निवेद्यं मां देयस्त्वयैष वरः' ।।७७ 39
तेनोक्तम् । 'भवत्वेवम् ।' ततो ऽन्यदा तत्र चित्रकृता तस्मै कुमाराय चित्रपटः समर्पितः । तत्र च चित्ताहादविधायिनी चित्रितां कनीमेकां विलोक्य विस्मयस्मेरमनाः कुमारः पप्रच्छ । 'भोश्चित्रकर,
1.) P सर्वदा वैक एव. 3) B om. संसारे. 4) B om. या. 10) Pएवं मानेन B एवमनेन. 15) P B om. ततः पुरतः etc. to नरकदुःखमिति. 25) 0 त्रिजगदभिवंद्य. 29) 0 नाम भूपतिः 31) PB प्रेषितुं for प्रेक्षितुं. 32) B महाननुरागः 36) P ततस्तुष्टेनोक्तं. 41) B भो चित्रकर.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org