________________
-III. § 4 : Verse 16]
कुवलयमालाकथा ३
* 31
3
1 द्वीपं समायातः ।' तेन तदवगम्य भणितम् । 'सुवर्णद्वीपं प्रति प्रचलतो मम भीषणे जलधावगाधे पूर्व- 1 भवार्जितदुष्कृतेनेव वायुना प्रेरितं त्वरितमेवागण्यपण्यसंभृतं पोतमस्फुटत् । ततो ऽहं फलकमेकं प्राप्य कुडङ्गद्वीपमाश्रितः । ततो धनेनेति भणितं 'सममेवात्र परिभ्रमावः' । अथ तत्रैव ताभ्यां परिभ्रमयां 3 कदाचितृतीयं पुरुषं मिलितं विलोक्य पृष्टम् । 'भद्र, कुतः पुरादत्र द्वीपे समायातवान् ।' तेनेति जल्पितम् । मम व्रजतो लङ्कापुरीं वाहनं भग्नं फलकप्रात्यात्र संप्राप्तः ।' ताभ्यां निगदितम् । 'अतीव रम्यतरम6 भूत्, यदस्माकं त्रयाणामपि समदुःखानां महती मैत्री समजनि । तावदत्र कस्मिन्नपि समुन्नते पादपे भिन्न- 6 या पात्रचिह्नमूर्वीक्रियते । तथेति प्रतिपद्य तैर्वल्कलमेकं तरुशिखरे निबद्धम् । ततस्तृष्णाक्षुधाक्लान्ताः सर्वत्र परिभ्रमन्तस्तं कमपि तादृशं शाखिनं न पश्यन्ति । एवं किल भक्ष्यतरुफलोद्गमः । एवं तैः सर्वत्र 9 द्वीपे स्वैरं विचरद्भिर्दुःखशतसमाकुलैः कथमपि वेश्माकाराणि त्रीणि कुडङ्गानि दृष्टानि । ते एकैकं 9 कुङ्गमाश्रित्य स्थिताः । तेषु च काकोदुम्बरिकामेकैकां निरीक्ष्य चातीवोच्छु सितहृदयैर्भणितम् । 'अहो, सांप्रतं प्राप्तव्यं प्राप्तम्, वयं निर्वृतचेतसः संजाता एतद्दर्शनमात्रेणापि ।' तैः कुडङ्गेषु प्रविश्य 12 काकोदुम्बरिका फलानि विलोकितानि, परमेकमपि फलं न ददृशे । ततस्त्रयो ऽप्यतीव दुर्मनसो बभूवुः । 12 कैश्चिदपि दिवसैस्तेषां मनोरथशतैः काकोदुम्बरिकाः फलाकुलास्तत्र जज्ञिरे । ते काकाद्युपद्रवेभ्यो रक्षन्तस्तिष्ठन्ति । इतश्च केनापि सांयात्रिकेण करुणावता भिन्नवहनचिह्नमालोक्य कर्णधारद्वयं प्रैषि । 15 ततस्ताभ्यां सर्वत्रान्वेषयद्भ्यां पुरुषत्रयं कुडङ्गस्थं काकोदुम्बरिकाफलबद्धजीविताशयं निरीक्ष्य भणितम् 115 आवां पोतवणिजा प्रेषितौ भवतामानयनाय । अत्र द्वीपे दुःखशतप्रचुरे किं तिष्ठथ । तत्रैकेन नरेणेत्युक्तम् । 'किमत्र द्वीपे कष्टम् एतत् कुडङ्गं गृहतुल्यम् एषा च काकोदुम्बरिका फलिता 18 भूयो ऽपि फलिष्यति, अहं महता सुखेनात्र तिष्ठामि कथमपि परतटं नागच्छामि' । इति भणित्वा तत्रै-18 वैकः पुरुषः स्थितः । ततस्ताभ्यां निर्यामकाभ्यां द्वितीयो भणितः । त्वमपि परतटमागच्छ ।' तदाकर्ण्य तेन भणितम् । 'अहं काकोदुम्बरिकापक्कफलमेकमुपभुज्य यः कोऽपि पश्चान्नाविकः समेष्यति तेन 21 सहागमिष्यामि' । इति भणित्वा द्वितीयो ऽपि तत्र तस्थिवान् । ततस्ताभ्यां तृतीयो भणितः । 'भो भद्र, 21 किमत्र करोषि सांप्रतं परतीरमागच्छ ।' 'भवतां स्वागतम्' इति भणित्वा तृतीयः पुमान् ताभ्यां समं गत्वासमप्रीत्या तरण्यामारुरोह । कियद्भिरपि दिनैर्वहनं तटं प्राप । तत्र पुत्रमित्रकलत्रधनधान्यादि24 भिर्वस्तुभिर्मिलितः सततमेव स सुखमनुभवन्नास्ते ।
(३) अथास्योपनयः श्रूयताम् ।
27
यय जलधिर्घोरः संसारः स दुरुत्तरः । यः कुडङ्गो महाद्वीपः स मानुष्यभवः स्मृतः ॥ १ ये 'कुडङ्गा 'निवासास्ते ये तत्र पुरुषास्त्रयः । त्रिःप्रकारा भवेयुस्ते जीवाः संसारवर्तिनः ॥ २ काकोदुम्बरिका यास्तु कान्तास्तास्तारलोचनाः । फलानि यानि तत्र स्युस्तान्यपत्यानि भूरिशः ॥ ३ वृथाकृताशापाशास्ते या एवात्यन्तकोविदाः । दारिद्र्यदुःख रोगौघशकुनेभ्यो निरन्तरम् ॥ ४ यत्परत्र हितं स्वस्य तदेवायाति विस्मृतिम् । वैधेयानां गृहानेककार्यव्यापृतचेतसाम् ॥ ५ यः पोतेशः स च गुरुर्निर्यामौ धर्मयोर्युगम् । या तरी तत्र दीक्षा सा यत्तीरं सा च निर्वृतिः ॥ ६ संसारदुःखसंतप्तान् जीवानुत्तारयन्ति ये । सर्वदैव महासत्त्वाः सर्वतत्त्वावलोकिनः ॥ ७ निन्द्यं मनुष्यजन्मेदं शोचनीयमनेकधा । मोक्षसौख्यं भजस्वेति ते वदन्ति यतीश्वराः ॥ ८ अभव्यजीवस्तत्रैको द्वीपे ऽत्र नृभवे वदेत् । यत्सौख्यं स च मे मोक्षस्तत्तेन मम किं पुनः ॥ ९ बूते द्वितीयः संसारी दूरभव्यो मुनीश्वर । पुत्रमित्रकलत्रादिममत्वं त्यक्तुमक्षमः ॥ १० भव्यस्तृतीयो वदति श्रुत्वा सद्धर्मदेशनाम् । मनुष्यलोके कस्तिष्ठेद्रिष्ठे दुःखबाधया ॥ ११ सप्ताङ्गराजि यद्राज्यं प्राज्यं रम्या च संततिः । भवे भवे भवत्येव जैनदीक्षा कदापि न ॥ १२ ततो ममालमेतेन जन्मना दुःखजन्मना । समुद्यमं करोम्येष महोदयपदश्रिये ॥ १३ भूयोऽप्यूचे कथामेतामुक्त्वा श्री धर्मनन्दनः । भो वत्सा व्रतदृष्टान्तमाकर्णयत संप्रति ॥ १४ (४) तथाहि जम्बूद्वीपे ऽत्र क्षेत्रे भरतनामनि । देशो ऽस्ति मगधाभिख्यो वसुधामुखमण्डनम् ॥ १५ अनेकदेशविख्यातं श्रियामेकः समाश्रयः । अस्ति राजगृहं तत्र नगरं नगराजितम् ॥ १६
39
27
30
33
36
39
Jain Education International
24
For Private & Personal Use Only
30
33
1) B द्वीपे समायातस्तेन, B प्रचलितो. 2 ) P भवार्जितविगतदुः कृते B भवार्जिताभितदुः कृते", PB omit प्रेरितं. 3) P Bom. ततो. 8 ) B सर्वतः for सर्वत्र, c om. एवं किल... फलोद्गम: ।. (12) P ततोऽजीवत्रयपि दुर्मनसो B ततोतीव त्रयोपि दुर्मनसो. 14) PB सांयात्रिकेन. 17 ) PB एतं or एनं for एतत्, P एका च 21) P B inter. भणित्वा or द्वितीयोऽपि 24 ) Pom. स. 26) c * घोरसंसार : 27 ) Pom. second ये, 0 त्रिप्रकारा. 32 ) P जीवानुत्तीरयंति B जीवानुत्तरयति. 33 ) After वदन्ति य P repeats सर्वदेव महासत्त्वाः etc. to ते वदन्ति 34 ) Pleaves some space after द्वीपेत्र नृभ and then continues with म मोक्षस्तत्तेन. (41) P 'देशतिख्याती श्रेयामेक:
36
www.jainelibrary.org