________________
-II. $ 27 : Verse 127] कुवलयमालाकथा २
* 23 1 ९२६) अथ सजीकृतं यानपात्रम् । गृह्यन्ते क्रयाणकानि । उपचर्यन्ते निर्यामकाः। निर्णीयते 1 निमित्तविद्भिर्यात्रादिवसः। स्थाप्यते लग्नम् । निरूप्यन्ते निमित्तानि । विलोक्यन्ते उपश्रुतयः। संमान्यन्ते 3 विशिष्टजनाः।अर्घ्यन्ते देवताः। सजीक्रियते सितपटः। ऊर्द्धः क्रियते कूपस्तम्भः। संगृह्यते काष्ठसंचयः। 3 स्थाप्यते परिग्रहः । आरोप्यते भक्तम् । भ्रियन्ते जलभाजनानि । एवं कुर्वतस्तस्य समागतो यात्रादिनः। तत्र च तौ कृतमजनौ मुदितचेतसौ सुमनोमालाविलेपनवासो ऽलङ्कारालंकृतौ द्वावपि सपरिजनौ यान6 पात्रमारुरुहतुः। चलितं यानपात्रम् । वादितानि तूर्याणि । चालितान्यरित्राणि । ततः प्रावर्तत गन्तुं 6 जलधौ यानपात्रम् । अनुकूलो वायुर्ववौ। कियतापि कालेन वहनं रत्नद्वीपं ययौ । तस्मात्तावुत्तीर्यातीव रम्यतमं प्राभृतं गृहीत्वा भूपचरणयुगलमभिगम्य लब्धप्रसादविशदमानसौ क्रयविक्रयं विरचय्य व्यावृत्य 9 निजकूलाभिमुखमुत्सुको प्रचेलतुः। अनुकूलवायुना वहनं प्रेर्यमाणं समुद्रान्तः परिवीक्ष्य लोभदेवेन 9 व्यचिन्ति । 'अहो, प्राप्तो मनोरथादधिकतरो लाभः । संभृतं च रत्नैर्यानपात्रम् । तावत्तटं प्राप्तस्य वहन
स्यैष मम भागी भावीति न सुन्दरमेतत् ।' इति चिंतयन् लोभदेवो ऽवगणय्य दाक्षिण्यं समवलम्ब्य 12 निष्करुणत्वं शरीरचिन्तायां समुपविष्टं रुद्रश्रेष्ठिनं जलधौ पातयामास । तस्मिन् यानपात्रे योजनत्रयमति-12
क्रान्ते लोभदेवेन महता शब्देन पूच्चके 'अये, धावत धावत, मम वयस्यो दुरुत्तारे प्रचुरमकरघोरे सागरे पपातेति।' इत्याकर्ण्य निर्यामकलोकः परिजनश्च वीक्षितुं प्रवृत्तः । तैरुक्तं 'कुत्र पपात'। तेन निगदितम् । 15 'अत्रैव पतितो मन्ये मकरेण गिलितश्च । मया जीवतापि किम् । अहमपि तद्वियोग दुस्सहमसहमान: 15 प्राणत्यागं विधास्ये।' एतन्निशम्य सत्यं विमर्थ्य कर्णधारकैः परिजनेन च प्रबोध्य स्थापितः। यानपात्रमपि
प्रचलितम् । स रुद्रश्रेष्ठी अकामनिर्जरया जलधौ महामकरवदनकुहरदंष्ट्राक्रकचगोचरीभूतोऽवसानं प्राप्य 18 रत्नप्रभापृथ्याःप्रथमे योजनसहने व्यन्तरभवने ऽल्पैश्वर्यपरोराक्षस उत्पेदे । तत्र तेन विभङ्गज्ञानवशतो 18 मकरेण गिलितमात्मकायं गच्छद्यानपात्रं च विलोक्य चिन्तितम् । 'अरे, एतेन पापिना लोभदेवेनाहमत्र प्रक्षिप्त
। अहो, दुराचारस्यास्य साहसम् । न गणितः स्नेहसंबन्धः। न धृतश्चित्ते परोपकारः। न कृतं 21 सौजन्यम् ।' इति चिन्तयतस्तस्यानल्पः कोपानलो जज्वाल । एतेनेति चिन्तितम् । 'यदमुं व्यापाद्य सद्यः 21 सर्वस्यार्थस्य भाजनं भविष्यामि। तत्तथा करिष्ये यथैतस्यापि नान्यस्य वा भवति।' इति चिन्तयित्वा राक्षसो मध्ये समुद्रमाययौ । तत्र बहिनं विलोक्य कोणपः प्रतिकूलमुपसर्ग कर्तुमारब्धवान् । 24. २७) अथाभूच्छयामलं मेघमण्डलं मरुदध्वनि । रुद्राभिधानं वीक्ष्येव श्रेष्ठिनं गतजीवितम् ॥ १२१ 24
भ्राम्यन्ति परितोऽप्यभ्रं घना विद्युद्विलोचनाः। पश्यन्तःश्रेष्ठिनमिव सार्द्राः स्नेहिस्वभावतः॥ १२२
वर्षन्त्यमोघधाराभिः स्वैरं धाराभृतो ऽम्बुधौ । निशातशरराजीभिरिव वीरा रणाङ्गणे ॥ १२३ 27 विश्वमन्धीकृतं विश्वमुदितै—मयोनिभिः । पुत्रा अनुहरन्ते हि पितरं नितरामिह ॥ १२४ 27
लोलकल्लोलमालाभिः प्रेर्यमाणं मुहुर्मुहुः। प्रचण्डपवनोद्भूतं प्राणिप्राणभयावहम् ॥ १२५
तद्रोषवशतः पारावारान्तर्वहनं वहत् । अगण्यपण्यसंकीर्ण त्वरितं स्फुटमस्फुटत् ॥ युग्मम् ॥ १२६ । 30 लोभदेवो ऽम्बुधौ द्वीपमिव नीरं मराविव । भवितव्यतया प्राप फलकं तत्र चालगत् ॥ १२७ 30
सप्तभिरहोरात्रैस्ताराद्वीपमायातवान् । स तत्र समुद्रवेलावनपवनेन शीतलेन प्रत्युजीवित इव क्षणम् । ततस्तत्तीरवासिभिः कृष्णकायकान्तिभिः शोणलोचनैर्यमदूतैरिव पुरुषैर्जगृहे । ततो लोभदेवो जगाद भव33 द्भिरहं कथं गृह्ये।' तैः कैतवेनोक्तम् । 'भद्र धीरो भव, मा विषादं भज, यदस्माकमेष नियोगः पोतवणिजो 33
ऽवस्थां पतितस्य स्वागतं विधीयते' इति । एवंविधं जल्पद्भिस्तैर्लोभदेवो गृहमानीय विनयवामनैर्विष्टरे निवेश्य संवनस्नानं भोजनाच्छादनविधि विधाय जल्पितः। 'भद्र, चेतसि विश्वासं समाश्रय, मा भयस्य 36 भाजनं भव ।' तत इत्याकर्ण्य चिन्तितमनेन । 'अहो, अयं कीडगकारणवत्सलो लोकः। स यावदिति 36 चिन्तयन्नस्ति तावत्तैर्निष्कृपैस्तं बद्धा बाढं शस्त्रेण मांसलप्रदेशं विदार्य मांसमुत्कर्तितं शोणितं च जगृहे।
स पुनरौषधयोगेन विलिप्ताङ्गोऽक्षतशरीरो जज्ञे । पुनरपि षड्भिर्मासैरतीतैस्तस्य तदेव कृतम् । पुनरपिस 39 पटुतरशरीरः कृतः। एवमनयारीत्या तस्यास्थिपञ्जरावशेषस्य समुद्रान्तःस्थस्य द्वादश
2) PB निमित्तवद्भिर्या. 3) On सितपट B has a marginal gloss thus: सिढ इति प्रसिद्धः. 5) P B °वासोलंकारपरिवृतौ द्वावपि. 6) On अरित्राणि B has a marginal gloss आउलां. 8) 0°भिगम्य नमश्चक्रतुः । (ततः) लब्ध', रत्नान्युपायं for व्यावृत्त्य, निजकुला. 12) P जलधौ धातयामास. 13) PB inter. प्रचुरमकरघोरे & सागरे. 14) P परजनश्च- 16) PB एतन्निशम्य सम्यकर्णधारकैः. 19) PB एतेन लोभदेवेन पापिना अहमत्र. 29) B अगण्यपुण्य. 34) Pom. इति. 35) " सविनयस्नानभोजना', PB विश्वासमाश्रयः 37) PB मांसमुत्कीर्तितं.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org