________________
21
* 22
रत्नप्रभसूरिविरचिता [II. $ 25 : Verse 1171 ततस्तस्य तारुण्यपुण्यावयवस्य मानसमतीव लोभाभिभूतमभूत् । अन्यदा द्रव्योपार्जनप्रगुणितचित्तो 1
गुरुजनमनुज्ञाप्य लोभदेवस्तुरङ्गानुत्तुङ्गान् सजीकृत्य वाहनानि च स्वीकृत्य पाथेयं संगृह्य मित्रवर्गमा3 पृच्छय तिथिकरणनक्षत्रपवित्रे मुहूर्ते चन्द्रबले वरलग्ने स्वामिना वीक्षिते स्नानं विधाय देवतार्चनं निर्माय 3
च वहन्नाडिकादत्तपदः स्वजनेनानुगम्यमानः प्रमुदितवदनो दक्षिणाशां प्रति प्रचलितः । जनकेनोक्तम् । •'वत्स, तवाधीतसर्वशास्त्रस्य माणिक्यस्य घटनमिव भारत्याः पाठनमिव मौक्तिकानामुत्तेजनमिव सर्वथा 6 शिक्षावचः कीदृर, तथापि स्नेहमोहितचेतसा मया त्वां प्रति किंचिदुच्यते । 'पुत्र, दवीयो देशान्तरं, 6 विषमा मार्गाः, कुटिलहृदया लोकाः, वञ्चनप्रगुणाः कामिन्यः, घनतरा दुर्जनाः, विरलाः सजनाः, दुष्परिपाल्य ऋयाणकम्, दुधर यावनम्, विषमा कायंगतिः, तावत्त्वया सर्वथैव वचन पण्डितेन, वचन 9 मूर्खेण, वचन दयालुना, वचन निष्कृपेण, क्वचन सूरेण, कचन कातरेण मार्गों निर्गमनीयः ।' इति 9 शिक्षावचोभिः सुतममन्दानन्दसंदोहमुग्धदुग्धाब्धिमध्यस्थं परिगलन्नयनयुगलजलं पिता विदधे ।
लोभदेवः कतिपयैरप्यनवरतप्रयाणकैर्दक्षिणापथमाश्रित्य कियतापि कालेन सोपारकपत्तनं प्राप्तवान् । 12 यत्रोत्पातः पतङ्गेषु वक्रता भ्रूषु योषिताम् । प्रकम्पश्च पताकानां जनानां न कदाचन ॥ ११७ 12
प्रामाणिकेषु संवादः कन्यासु करपीडनम् । मथनं च दधिष्वेव भङ्गः पूगीफलेषु च ॥ ११८
सम्यग्भवोच्छित्तिविधौ नितान्तं सद्धर्मकर्माहितचेतसो ऽपि । 15 शिवार्थिनो यत्र जना यतन्ते कुर्मः स्तुति का नगरस्य तस्य ॥ ११९
__15 __ यत्र विश्वोल्लासियशोदयापरिगतो जनार्दन इव जनः सर्वमङ्गलोपचारचारश्च, पार्वतीपतिरिव विमोहयति
संगतो गणिकागणो धार्मिकलोकश्च । तत्र जीर्णश्रेष्ठिनो रुद्राभिधानस्य गुणश्रेणिनिधानस्य वेश्मनि वसता 18 कियतापि कालेन तुरङ्गान् विक्रीयाधिकं धनमुपायं लोभदेवेन स्वगृहागमनोत्सुकमनसा बभूवे । तत्रा-18
यमाचारः । 'ये केचिद्वणिजस्तत्रत्या देशान्तरागता वा सायं ते सर्वे मिलित्या परस्परप्रीतिपूर्वकं क्रयविक्रयादिकेन किमुपार्जितम् , किं किं पण्यमद्य देशान्तरादागतम्' इति वार्ता वितन्वते । गन्धताम्बूल21 माल्यादि परस्परं प्रयच्छन्ति ।
६२५) अन्यदा स लोभदेवस्तत्रैवोपविष्टस्तदा केनापि 'कापि देशान्तरे किमप्यल्पमूल्येन वस्तुनानल्पमूल्यं वस्तु प्राप्यते' इत्याचचक्षे । अथ केनचिद्वणिजा गोष्ठयन्तःस्थेन प्रोक्तम् । 'यदहं दुस्तरं वारिधिमु24 ल्लल्य रत्नद्वीपमगमम् । तत्र मया पिचुमन्दपत्राणि दत्त्वा रत्नानि स्वीचक्रिरे । एवं विक्रयक्रयं विरचय्य 24
व्यावृत्य क्षेमतयात्राहमागतः।' इमां वार्ता श्रुत्वा लोभतत्त्वाहितमनसा लोभदेवेन स्ववेश्मगमनाभिप्राय विमुच्य पुनर्नवीनद्रविणार्जनहेतवे चेतश्चक्रे । ततो निजवेश्मागत्य निर्मितस्नानभोजनो यथाश्रुतं लोभदेवः 27 श्रेष्ठिरुद्रस्य पुरः कथयामास । 'तात रुद्र, तत्र रत्नद्वीपे गतानां महाँल्लाभ उत्पद्यते, यत्र निम्बपत्रै रत्नान्ये-27
तानि प्राप्यन्ते । ततः किं मया न तत्र समुद्यमः क्रियते।' रुद्रवेष्ठिनादिष्टम् 'वत्स, यावन्मात्रो मनोरथो ऽर्थकामयोर्विधीयते तावन्मात्र एव प्रसरति, 'लाभाल्लोभो हि वर्धते' इति न्यायात् । अग्रेतनमर्थसंचयं 30 स्वीकृत्य स्वदेशं गच्छ । किं च बहुलापाय जलधेरुल्लङ्घनम् । ततो ऽधिकलोमे मनो मा विधेहि । एतदेव 30 द्रविणं यथेच्छं भुल्ल । दीनादीनां दानं ददस्व । दुर्गतं जातिसंबद्धं च समुद्धर । सर्वथैव धनस्य फलं
गृहाण । निगृहाण च समधिकद्रव्यार्जनलक्षणं लोभराक्षसम् ।' एतदाकर्ण्य लोभदेवेन जल्पितम् । 33 'यः कार्ये दुर्गमे धीरः कार्यारम्भं न मुञ्चति । वक्षो ऽभिसारिकेव श्रीस्तस्य संश्रयते मुदा ॥ १२० 33
तथा तात, प्रारब्धकार्यनिर्वाहिमनसा पुंसा भवितव्यम् । त्वमपि मया सह रत्नद्वीपमागच्छ ।' श्रेष्ठिना भणितं 'ममागमनं न भावि केवलं त्वमेव व्रज'। लोभदेवेनोक्तम् 'कथं भवतस्तत्र गमनं न संपद्यते 36 तन्निवेदय।' रुद्र श्रेष्ठी प्रोवाच । 'यदहं सप्तकृत्वः समुद्रान्तर्यानपात्रेण प्रविष्टः, परं सप्तकृत्वोऽपि मम वाहनं 36
भग्नम् , तावदहं नार्थस्यैतस्य भाजनम् ।' लोभदेवेन जल्पितम्। 'धर्माशोरपि प्रतिदिनमुदयाधिरोहप्रतापपतनानि किं पुनर्नान्यस्य इति परिभाब्य सर्वथैव कमलायाः समुपार्जने सावधानमनसा भाव्यम् । त्वया 39 रत्नद्वीपे मया सह समागन्तव्यमेव ।' श्रेष्ठी जगाद पुनः। 'वत्स, त्वां प्रति सांप्रतं किंचिद्वदामि, अत्र 39 ___ यानपात्रे त्वमेव क्रयाणकनेता, अहं पुनर्मन्दभाग्यः' इति । ततस्तेन तदेवाङ्गीकृतम् ।
4)P दिशि for प्रति. 8) 0 G अतस्त्वया for तावत्त्वया. 9) PB मूर्षेण for मूर्खण. 15) B has a marginal gloss on शिवार्थिनो ete. thus: विरोधोयं शिवार्थिन ईश्वरभक्तास्ते भवस्येश्वरस्योच्छेदविधौ कथं यत्नं कुर्वति विरोध (जंग) श्चेत्थं शिवार्थिनो मोक्षार्थिनः । संसारोच्छेदविधौ. 17) B bas a amarginal gloss (on विमोहयति) thus : मोहमूढं कारयति पक्षे विगतमोहं करोति । संगमात् पक्षे संगतो मिलितः।. 18) P स्वगृहगमनो'.. 19) P तत्राधमाचा, P देशांतरानागता, B देशांतरादागता, P B om. सर्वे,
परस्परं. 23) P यदसि दुस्तरवारिधि । यदस्मि दुत्तरवारिधि, Pएनं विक्रय कयं. 25) PB स्ववेश्मगमनं विमुच्य, C ततो विजोत्तारके समागत्य निर्मित. 28) Padds न before समुद्यमः.34) Pसमं for सह.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org