________________
अथ टीकाकारस्य प्रशस्तिः ।
**✩✩✩*
आजन्मब्रह्मचारी चरमजिनपतेः शासनेऽतीवधुर्यो, भूषा सौधर्मवंशेऽभवदयमनघः सर्वशास्त्रे पटीयान् । पट्टे वीरात्रिषष्ठीप्रति इह महान् रत्नसूरिः सुविद्वान्, क्षान्त्या दान्त्या च शोभां दधदवनितलख्यात सत्कीर्त्तिमाली ॥१॥ अध्यास्त तत्पट्टमनल्पतेजा, ज्ञानी क्षमी संयमवर्धमानः । वृद्धक्षमासूरिरतीयविद्वान्, आजन्मवृद्ध्याऽऽम्लवतं करिष्णुः ॥ २ ॥ तदीयप समलञ्चकार, देवेन्द्रसूरिः कमनीयकीर्त्तिः ।
सुदुष्कराऽनेकतपोविधाता, पोपूज्यमानो जनताभिरेषः ॥ ३ ॥ एतस्य पट्टे गणितप्रवेदी, नैमित्तिकश्चाऽभवदद्वितीयः । कल्याणसूरिर्गुणरत्नमाली, विश्वोपकारार्थमबद्धचारी ॥ ४ ॥ कुशाग्रधीर्विप्रकुलप्रसूतः, सुसंयमी पूर्णसमाधियोगः ।
प्रमोदसूरिः प्रतिवाक्यमोदी, बभूव तत्पट्टमलङ्करिष्णुः ॥ ५ ॥ तत्पट्ट आसीन इमामुदारां, वेदेषुर्नेन्दाऽवनिसंमिताऽब्दे । क्रियासमुद्धारकरः सुखेन, राजेन्द्रसूरी रचयाञ्चकार ॥ ६ ॥
-
इतिश्रीसकलजैनागमपारदृश्व - श्रीवीरजिनप्रवचनस्फारशृङ्गारहार — सुविहितसूरिशऋचक्रपुरन्दरनन्दनवनाऽऽरामविहारि - शिथिलाचार प्रचारतमोहारि-परमयोगिराज - कलिकालसर्वज्ञकल्प — जगत्पूज्यशासनसम्राट् - गुरुदेव - श्रीमद्विजयराजेन्द्रसूरीश्वर महाराजसुरचिताश्रीकल्पसूत्रार्थप्रबोधिनी' नाम्नी कल्पसूत्रस्य
"
टीका समाप्ता । c0000
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org